अद्यतन विद्यार्थिन: एव राष्ट्रस्य भविष्य-निर्मातारः - सतीश-महाना
लखनऊ-नगरम्, १५ मईमासः (हि.स.)। उत्तर-प्रदेश-विधानसभाध्यक्षः सतीश-महाना अवदत् यत् विद्यार्थिभ्यः पुस्तकीय-ज्ञानेन सह लोकतान्त्रिक-संस्थानां कार्यप्रणाल्याः प्रत्यक्ष-अनुभवः अपि प्राप्तव्यः। तेन उक्तं यत् अद्यतनाः विद्यार्थी एव श्वः जागरूक-नागरिकाः र
छात्रों के साथ विधानसभा अध्यक्ष सतीश महाना


लखनऊ-नगरम्, १५ मईमासः (हि.स.)। उत्तर-प्रदेश-विधानसभाध्यक्षः सतीश-महाना अवदत् यत् विद्यार्थिभ्यः पुस्तकीय-ज्ञानेन सह लोकतान्त्रिक-संस्थानां कार्यप्रणाल्याः प्रत्यक्ष-अनुभवः अपि प्राप्तव्यः। तेन उक्तं यत् अद्यतनाः विद्यार्थी एव श्वः जागरूक-नागरिकाः राष्ट्रस्य भविष्य-निर्मातारश्च भविष्यन्ति, अतः तेषु लोकतान्त्रिक-मूल्यानां संविधानस्य प्रति च सम्मान-भावना अत्यावश्यकी अस्ति।विधानसभाध्यक्षः सतीश-महाना शुक्रवासरे कानपुर-नगरस्य विभिन्न-विद्यालयेभ्यः विधानसभा-भ्रमणार्थम् आगतान् छात्र-छात्रान् सम्बोधयति स्म।

उल्लेखनीयं यत् विद्यार्थिभ्यः लोकतान्त्रिक-व्यवस्थायाः संसदीय-परम्पराणां च व्यावहारिक-ज्ञान-प्रदानस्य उद्देश्येन कानपुर-नगरस्य विभिन्न-शिक्षण-संस्थाभ्यः विवेकानन्द-विद्या-निकेतन-इण्टर-महाविद्यालय:, अशोका-एजुकेशन-केन्द्रम् तथा पूर्णचन्द्र-विद्या-निकेतनस्य छात्र-छात्राः स्व-शिक्षकैः सह उत्तर-प्रदेश-विधानसभायाः शैक्षिक-भ्रमणं कृतवन्तः।

अस्मिन् अवसरे विद्यार्थिनः विधानसभायाः कार्यवाहीम्, सदनस्य व्यवस्थां तथा लोकतान्त्रिक-प्रक्रियाः समीपतः दृष्टवन्तः अवगतान्च। उत्तर-प्रदेश-विधानसभाध्यक्षः सतीश-महाना विद्यार्थिभिः शिक्षकैश्च सह आत्मीय-संवादं कृत्वा विधानसभायाः कार्यप्रणालीं, विधायी-प्रक्रियां तथा जनप्रतिनिधीनां दायित्वानां विषये विस्तरेण सूचनां प्रदत्तवान्। तेन उक्तं यत् विधानसभा लोकतन्त्रस्य महत्त्वपूर्ण: मञ्च: अस्ति, यत्र जनतायाः सम्बद्ध-विषयेषु चर्चा क्रियते तथा प्रदेशस्य विकासेन सम्बद्धाः नीतयः अधिनियमाश्च निर्मीयन्ते।

महाना अवदत् यत् एतादृशानि शैक्षिक-भ्रमणानि विद्यार्थिषु जागरूकतां नेतृत्व-क्षमतां उत्तरदायित्व-भावनां च विकसितयन्ति। तेन विद्यार्थिनः अनुशासनस्य सकारात्मक-चिन्तनस्य निरन्तर-अध्ययनस्य च महत्त्वेन प्रेरिताः। तेन उक्तं यत् सफलतायाः आधारः केवलं शिक्षा न, अपितु संस्काराः परिश्रमः समाजस्य प्रति संवेदनशीलता च अस्ति। अस्मिन् अवसरे विधानसभायाः प्रमुख-सचिवः प्रदीप-कुमार-दुबे सहिताः अनेके अधिकारीणः कर्मचारीणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan