Enter your Email Address to subscribe to our newsletters

लखनऊ-नगरम्, १५ मईमासः (हि.स.)। वित्त-संसदीय-कार्य-मन्त्री सुरेश-कुमार-खन्ना उत्कृष्ट-विधायक-पुरस्कारार्थं चयनितः अस्ति। अस्य घोषणा शुक्रवासरे विधानसभा-अध्यक्षस्य अध्यक्षतायां विधान-भवने आयोजितायाम् उत्कृष्ट-विधायक-समितेः सभायां कृता। सभायाम् उप-मुख्यमन्त्री केशव-प्रसाद-मौर्यः, ब्रजेश-पाठकः, प्रतिपक्ष-नेता माता-प्रसाद-पाण्डेयः, पूर्व-मन्त्री रमापति-शास्त्री तथा वरिष्ठ-पत्रकारः सुरेश-बहादुर-सिंहः उपस्थिताः आसन्।
सुरेश-खन्ना निरन्तरं नववारं शाहजहाँपुर-क्षेत्रात् निर्वाचितः भवति। सः विधानसभायाः वरिष्ठ-सदस्यः अस्ति। तस्य संसदीय-ज्ञानम् तथा सदने उल्लेखनीयम् योगदानम् अस्ति। खन्ना मन्त्रिपदात् अतिरिक्तं विपक्षे अपि भाजपा-विधायक-मण्डल-दलस्य नेता आसीत् तथा तेन विविध-समितीनां सभापतित्वम् अपि कृतम्। सः सदने भाजपा-पक्षस्य मुख्य-सचेतकः अपि आसीत्। समित्या आयोजिते कार्यक्रमे सुरेश-खन्नाय उत्कृष्ट-विधायक-पुरस्कारः प्रदास्यते।
/ अंशु गुप्ता