Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, १५ मे-मासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी-नगर-निगमः नगरस्य मलजल-व्यवस्थां जल-निष्कासन-व्यवस्थां च अधिकां सुदृढां कर्तुं नूतन-मलजल-निष्कासन-नलिकायाः विस्तारस्य सिद्धतां करोति। शुक्रवासरे महापौरः अशोककुमार-तिवारी तथा वाराणसी-दक्षिणी-विधानसभाक्षेत्रस्य विधायकः डॉ.नीलकण्ठ-तिवारी दक्षिणी-विधानसभाक्षेत्रस्य आदमपुर-क्षेत्रे १७.५२-कोटि-रूप्यक-व्ययेन निर्मीयमाणायाः मलजल-जल-निष्कासन-परियोजनायाः विधिवत् शिलान्यासम् अकुरुताम्।
जैतपुरा-क्षेत्रस्य (वॉर्ड-संख्या ९३) “बङ्गाली-बाबू-उद्यानम्” इत्यत्र आयोजिते शिलान्यास-कार्यक्रमे उभाभ्याम् अपि नेतृभ्यां वैदिक-मन्त्र-उच्चारणस्य मध्ये शिलापट्टस्य अनावरणं नारिकेल-भेदनपूर्वकं संयुक्तरूपेण कृतम्। अस्याः महत्त्वाकाङ्क्षिण्याः योजनायाः अन्तर्गतं औसानगञ्ज-चतुष्पथात् आरभ्य ईश्वरगङ्गी, नाटी-इमली, धूपचण्डी इत्यादीन् प्रदेशान् अतिक्रम्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयं यावत् आहत्य २०१०-मीटर-दीर्घा नूतना मलजल-निष्कासन-नलिका विस्तरिता भविष्यति।महापौरेण उक्तं यत् एतत् कार्यं अग्रिमेषु षट्सु मासेषु सम्पन्नं भविष्यति। अस्य पूर्णतया सम्पन्नतायाः अनन्तरं नागकूप-जैतपुरा-छमुहानी-डिगिया-राजापुरा-ईश्वरगङ्गी-नाटी-इमली-प्रभृतिषु क्षेत्रेषु वर्षाकाले जायमान-गम्भीर-जलसञ्चयस्य मलजल-उद्गमनस्य च समस्याभ्यः स्थानीय-नागरिकेभ्यः महान् लाभः भविष्यति। अस्याः परियोजनायाः माध्यमेन बागेश्वरी-क्षेत्रम्, ईश्वरगङ्गी-क्षेत्रम्, धूपचण्डी-क्षेत्रम् इति त्रीणि क्षेत्राणि लाभान्वितानि भविष्यन्ति। महापौरस्य कथनानुसारं काशी-नगरं वैश्विक-मानदण्डानुसारं स्वच्छं सुन्दरं च निर्मातुं नगर-निगमस्य सर्वकारस्य च संकल्पः अस्ति। मलजल-निष्कासन-नलिकायाः अयं विस्तारः तस्याः श्रृङ्खलायाः महत्त्वपूर्णः भागः अस्ति, येन आदमपुर-क्षेत्रस्य नागरिक-सुविधासु महत् सुधारः भविष्यति।
कार्यक्रमस्य सञ्चालनं राजेश-सेठ-महोदयेन कृतम् तथा धन्यवाद-ज्ञापनं मध्यमेश्वर-मण्डलाध्यक्षः तारकेश्वर-गुप्त ‘बण्टी’ इत्यनेन कृतम्। अस्मिन् अवसरे भाजपा-पार्षदाः विवेकचन्द्र-जायसवालः, सुरेशकुमार-चौरसिया, रोहित-जायसवालः, संजय-विशम्भरी, मनोज-यादवः, श्रवण-गुप्तः, अनन्तराज-गुप्तः, अमरेश-गुप्तः, इन्द्रेश-सिंहः, लकी-भारद्वाजः, विजय-सोनकरः, सपा-पार्षदः प्रमोद-रायः इत्यादयः अपि उपस्थिताः आसन्।
/ अंशु गुप्ता