Enter your Email Address to subscribe to our newsletters

डॉ. मयङ्क-चतुर्वेदी
भोपाल-नगरम्, १५ मे-मासः (हि.स.)। मध्यप्रदेशस्य मालव-प्रदेशे स्थितं भोजशाला-स्थलम् केवलं शिलानां स्तम्भानां भग्नावशेषाणां च समूहः नास्ति, अपितु तत् एतादृशं प्रतीकं जातम् अस्ति, यत्र इतिहासस्य स्तरैः अन्तर्निहिता आस्था, राजनीतेः उष्णता, पुरातत्त्वस्य भाषा, न्यायालयीय-विवादाश्च एकत्र दृश्यन्ते। धार-नगरस्य एषः प्राचीन-धरोहरः बहुवर्षपर्यन्तं धार्मिक-स्थल-विवादस्य रूपेण स्थितः, किन्तु हिन्दू-आस्था तथा तस्मात् उद्भूत-जनभावनाभिः एषा सदैव केन्द्रस्थाने स्थापिता। सहस्रशः जनाः मार्गेषु अवतरन्, ग्रामे ग्रामे धर्मरक्षा-समितयः स्थापिताः, सम्पूर्णे मालव-प्रदेशे स्व-आराध्य-स्थलस्य पुनर्प्राप्त्यर्थं समये-समये जनजागरण-आन्दोलनानि च अभवन्।
भोजशाला-संघर्षस्य एषा कथा वस्तुतः तेषामपि जनानां व्यथा अस्ति, ये एतत् स्वकीय-सांस्कृतिक-अस्मितया सह सम्बद्धम् अस्थापयन्। किन्तु अस्य विवादस्य मध्ये तस्य संघर्षस्य एव अधिका चर्चा अभवत्, येन धार-नगरं बहुवारं चिन्ता-कर्फ्यू-दण्डप्रहार-न्यायालय-प्रवेश-पर्यन्तं नीतम्।
भोजशाला-विवादस्य मूलानि प्रायः सहस्र-वर्ष-प्राचीन-इतिहासे निहितानि सन्ति, यदा परमार-वंशस्य महान् शासकः राजा-भोजस्य शासनकाले अत्र सरस्वती-सदनम् संस्कृत-अध्ययन-केन्द्रं च निर्मितम् आसीत्। इतिहासविदां मतानुसारम् एतत् विद्या-दर्शन-संस्कृति-केन्द्रम् आसीत्। मालवायाः सांस्कृतिक-चेतनायां राजा-भोजस्य नाम अत्यन्तं सम्मानपूर्वकं गृह्यते। अतः भोजशालायाः विषये भावनात्मक-संबन्धः अधिकः प्रगाढः अभवत्। हिन्दू-पक्षः आदितः एव एतत् प्रतिपादयति स्म यत् अत्र माता वाग्देव्याः अर्थात् मातुः सरस्वत्याः प्रतिमा प्रतिष्ठिता आसीत् तथा एतत् स्थानं विद्यायाः आराधनायाः प्रमुख-केन्द्रम् आसीत्।
कालेन सह आक्रमणानि अभवन्, सत्ता परिवर्तिता, संरचनानां स्वरूपम् अपि परिवर्तितम्। मुस्लिम-पक्षस्य कथनम् अस्ति यत् एषः परिसरः कमाल-मौला-मस्जिद्-रूपेण प्रतिष्ठापितः तथा दीर्घकालात् अत्र नमाजपठनं क्रियते स्म। अत्रैव द्वयोः कथनयोः मध्ये संघर्षस्य भूमिः सज्जा अभवत्।
भोजशाला-विवादः दीर्घकालं सीमित-विमर्शेषु एव स्थितः, किन्तु १९९०-दशके एषः व्यापक-जन-आन्दोलन-रूपेण परिवर्तितः। १९९४ तमे वर्षे धार-नगरे सरस्वती-वन्दना-हनुमान-चालीसा-पाठस्य सार्वजनिक-आयोजनम् आन्दोलनाय नूतनां दिशं दत्तवान्। शनैः शनैः विश्व-हिन्दू-परिषद्, बजरङ्ग-दलं, हिन्दू-जागरण-मञ्चः इत्यादीनि संघटनानि एतत् “भोजशाला-मुक्ति-आन्दोलनम्” इति स्वरूपं दातुम् आरब्धवन्तः। तस्मिन् काले मालवायाः ग्रामेषु सभाः आरब्धाः। धार्मिक-यात्राः निष्कासिताः। युवानः संयोजिताः। एवं भोजशाला-मुक्ति-आन्दोलनं धार-नगरस्य समीपवर्ती-जनपदान् यावत् प्रसृतम्।
संघर्षस्य प्रथमः महत्त्वपूर्णः संकेतः—
६ दिसम्बरमासे १९९६ तमे वर्षे विश्वहिन्दू-परिषदः आह्वानेन शौर्य-दिवस-कार्यक्रमः आयोजितः। प्रशासनम् एतत् निवारयितुं कठोर-पदानि स्वीकृतवान्। आरक्षक-दलस्य वृद्धिः कृता। आन्दोलनकारिणः पृष्ठतः गन्तुं न इच्छन्ति स्म, प्रशासनं च विधि-व्यवस्था-विघटनस्य आशङ्कां व्यक्तवत्। अत्रैव आन्दोलनस्य शासनस्य च मध्ये प्रत्यक्ष-संघर्षः आरब्धः। भोजशाला-विवादः प्रथमवारं प्रादेशिक-विषयात् राष्ट्रीय-राजनीतिक-सामाजिक-विमर्शस्य विषयः जातः।
१९९७ तमे वर्षे निर्णयः आन्दोलनस्य उग्रतां प्रापितवान्। तत्कालीन-सर्वकारेण मुस्लिम-पक्षाय प्रत्येक-शुक्रवासरे नमाजस्य अनुमतिः प्रदत्ता, किन्तु हिन्दू-पक्षस्य प्रवेशे पूजार्चनायां च प्रतिबन्धाः आरोपिताः। अस्य निर्णयस्य कारणात् आन्दोलनम् अधिकं तीक्ष्णम् अभवत्। हिन्दू-संघटनानि एतत् धार्मिक-अधिकार-हननम् इति अवदन्। ग्रामे-ग्रामे धर्मरक्षा-समितयः सक्रियाः अभवन्। धार-नगरम् आन्दोलनस्य केन्द्रम् अभवत्। हिन्दू-जनानां मध्ये एषा भावना प्रगाढा जाता यत् तेषां सांस्कृतिक-प्रतीकानि सीमितानि क्रियन्ते। अस्मिन् एव काले महिलानां महती सहभागिता दृश्यताम् आगता। मातृशक्ति-सङ्गमे सहस्रशः महिलाः सम्मिलिताः। आन्दोलनं परिवार-समाज-समूहान् यावत् प्रसृतम्। अत एव भोजशाला-आन्दोलनं मालवायाः महत्तमेषु जन-आन्दोलनेषु गणितम्।
सपाद-लक्षाधिक-जनानां समागमः तथा उग्रतां प्राप्तवन्त्यः मार्गाः—
आन्दोलनस्य अतीव-तीक्ष्ण-काले धार-नगरस्य मार्गेषु विशाल-जनसमूहः समुपस्थितः। आन्दोलनकारिणां मतानुसारं लक्षाधिकाः धर्मरक्षकाः भोजशाला-मुक्त्यर्थं सङ्कल्पम् अकुर्वन्। सर्वत्र भगवा-ध्वजाः, धार्मिक-घोषणाः, भोजशाला-मुक्त्याः मागधाश्च श्रूयन्ते स्म। प्रशासनं परिस्थितेः नियन्त्रणार्थं धारा-१४४ नियुक्ता। अनेकेषु क्षेत्रेषु अनिश्चितकालिकः कर्फ्यू आरोपितः। आरक्षक-आन्दोलनकारिणोः मध्ये संघर्षाः अभवन्। दण्डप्रहार-ग्रहण-घटनाश्च अभवन्।
संघर्षः एतावत् उग्रः जातः यत् ३९ आन्दोलनकारिणः गम्भीररूपेण आहताः, द्वयोः जनयोः मृत्युनाऽपि सम्पूर्ण-प्रदेशस्य वातावरणं अत्यन्तं चिन्तापूर्णं जातम्। कारागारेषु स्थितैः कार्यकर्तृभिः सह मारण-दुर्व्यवहारयोः आरोपाः अपि कृताः। एताभिः घटनाभिः आन्दोलनम् अधिकं भावनात्मकं जातम्।
व्यवस्था तथा अस्थायी-सन्तुलनम्—
निरन्तरं वर्धमान-जनचिन्तायाः आन्दोलनस्य च अनन्तरं ८ एप्रिलमासे २००३ तमे वर्षे सर्वकारेण नूतना व्यवस्था प्रवर्तिता। अस्याः अन्तर्गतं हिन्दू-पक्षाय प्रतिदिन-दर्शनस्य प्रत्येक-मङ्गलवासरे पूजायाश्च अनुमतिः प्रदत्ता, शुक्रवासरे मुस्लिम-पक्षाय नमाजस्य व्यवस्था च कृता। अस्य निर्णयस्य अनन्तरं धार-नगरे विजय-उत्सवः आचरितः। मन्दिरेषु महा-आरार्तिकी अभवत्। आन्दोलनकारिणः एतत् आंशिक-विजयः इति अमन्यन्त, किन्तु एतत् समाधानं स्थायी नाभवत्।यदा यदा वसन्त-पञ्चमी शुक्रवासरेण सह एकस्मिन् दिने पतति स्म, तदा तदा चिन्ता पुनः वर्धते स्म। प्रशासनं सुरक्षा-व्यवस्थां वर्धयितुं बाध्यं भवति स्म। भोजशाला-विवादः पुनः पुनः एतत् सूचितवान् यत् एषः केवलं धार्मिक-विषयः न, अपितु अतीव-संवेदनशीलः सामाजिक-विषयः जातः।
ए.एस.आइ.-सर्वेक्षणेन पुनः विवादः वर्धितः—
उच्च-न्यायालयस्य आदेशानन्तरं ए.एस.आइ.-संस्थया ९८ दिवसपर्यन्तं वैज्ञानिक-सर्वेक्षणं कृतम्। भूम्यन्तर्गामी-रडार-उत्खनन-तकनीकी-विश्लेषण-माध्यमेन परिसरस्य परीक्षणं कृतम्। २०००तः अधिक-पृष्ठ-विवरणान्तर्गतं अनेकानि कथनानि समुपस्थितानि, येन विवादः पुनः तीव्रः जातः। विवरणे मन्दिर-शैली-अवशेषाः, मूर्तयः, स्तम्भाः, शिलालेखाः, स्थापत्य-सामग्री च प्राप्ता इति उल्लिखितम्। ए.एस.आइ.-संस्थया उक्तं यत् वर्तमान-संरचनायां पूर्ववर्ती-संरचनायाः अंशानां उपयोगः कृतः।
१०६ स्तम्भाः तथा ८२ मन्दिर-स्थापत्येन सम्बद्धाः कथिताः। संस्कृत-प्राकृत-अभिलेखाः अरबी-फारसी-लेखात् प्राचीनतराः इति निर्दिष्टम्। विवरणे एतदपि उक्तं यत् उत्तरकालीन-संरचना शीघ्रतया निर्मिता इव दृश्यते। एते निष्कर्षाः हिन्दू-पक्षस्य दावान् नूतन-बलं दत्तवन्तः, मुस्लिम-पक्षः तु विवरणस्य व्याख्यां प्रति प्रश्नान् उत्थापितवान्। अधुना सत्यं सर्वेषां पुरतः अस्ति, न्यायालये इतिहासस्य पुरातत्त्वस्य च भाषा एव प्रमुख-साक्ष्य-रूपेण प्रतिष्ठिता अस्ति।
वाग्देवी-प्रतिमा तथा सांस्कृतिक-स्मृत्याः प्रश्नः—
भोजशाला-विवादे माता वाग्देव्याः प्रतिमा अपि महत्त्वपूर्णः विषयः अस्ति। कथ्यते यत् १८७५ तमे वर्षे उत्खननकाले एषा प्रतिमा प्राप्ता, पश्चात् ब्रिटिश-अधिकारीभिः इङ्ग्लैण्ड-देशं नीता। हिन्दू-संघटनैः बहुवारं प्रतिमायाः भारत-देशं पुनरागमनस्य याचना कृता। आन्दोलनकारिणः एतत् भारतीय-ज्ञान-परम्परया सांस्कृतिक-गौरवेण च सम्बद्धं मन्यन्ते स्म।
न्यायालयस्य द्वारे स्थितः इतिहासः—
२०२२ तमे वर्षे “हिन्दू फ्रण्ट फॉर जस्टिस” तथा भोज-उत्सव-समित्या सम्बद्धैः पक्षकारैः उच्च-न्यायालये नूतना याचिका प्रस्तुता। अस्य परिसरस्य मूल-स्वरूपस्य वैज्ञानिक-परीक्षणस्य धार्मिक-अधिकार-निर्णयस्य च याचना कृता। अधुना सम्पूर्णः विषयः न्यायालये इतिहास-आस्था-पुरातत्त्व- संवैधानिक-अधिकाराणां पक्षे स्थितः अस्ति। एकतः संस्कृत-शिलालेखाः, स्थापत्य-अवशेषाः, ए.एस.आइ.-विवरणं च, अपरतः धार्मिक-परम्परा नमाजस्य च कथनम्।
उल्लेखनीयम् अस्ति यत् इन्दौर-उच्च-न्यायालये प्रचलिता श्रवण-प्रक्रिया केवलं नैयायिल-विवादः न मन्यते, अपितु मालवायाः सामाजिक-सांस्कृतिक-दिशाम् अपि प्रभावितुं समर्थः निर्णयः इति दृष्ट्या अवलोक्यते। भोजशालायाः एषा कथा तेषां वंशानाम् अपि कथा अस्ति, याभिः एतत् स्व-विश्वासेन सह सम्बद्धं कृतम्, मार्गेषु संघर्षः कृतः, कर्फ्यू-सहितं दण्ड-प्रहाराः स्वीकृताः, वर्षानुवर्षं निर्णयस्य प्रतीक्षा कृता। तदैव अद्यतन-वंशानां पुरतः एषः शुभ-दिवसः समागतः।
“हिन्दू फ्रण्ट फॉर जस्टिस” इत्यस्य प्रदेश-संयोजकः आशीष-जैनः अस्मिन् अवसरे कथयति यत् अस्य दिवसस्य प्रतीक्षा बहुवर्षेभ्यः क्रियते स्म। सत्यं पीडितं भवितुं शक्नोति, किन्तु अन्ततः विजयः तस्यैव भवति। भोजशाला माता-वाग्देव्याः मन्दिरम् अस्ति, एतत् ज्ञानस्य क्षेत्रम् अस्ति, अत्र ज्ञानसम्बद्धमेव कार्यं भवितुमर्हति। वस्तुतः एषा सफलता केवलं कस्यचित् वर्गस्य समुदायस्य वा न, अपितु सम्पूर्ण-हिन्दू-समाजस्य विजयः अस्ति।
Hindusthan Samachar / Divya Ranjan