भारते एकोऽपि निर्धनः जनः मृत्तिका-निर्मित-गृहे न निवत्स्यति - शिवराज-सिंह-चौहानः
मुम्बई-नगरम्, १५ मईमासः (हि.स.)। केन्द्रीय-ग्रामीण-विकास-मन्त्री शिवराज-सिंह-चौहानः सातारा-जनपदे शुक्रवासरे अवदत् यत् भारते एकोऽपि निर्धनः जनः मृत्तिका-निर्मित-गृहे न निवत्स्यति। सर्वेभ्यः पक्क-गृह-प्रदानं प्रधानमन्त्रिणः नरेन्द्रमोदिनः संकल्पः अस्
फोटो: सातारा में कार्यक्रम को संबोधित करते हुए केंद्रीय मंत्री शिवराज सिंह चौहान


मुम्बई-नगरम्, १५ मईमासः (हि.स.)। केन्द्रीय-ग्रामीण-विकास-मन्त्री शिवराज-सिंह-चौहानः सातारा-जनपदे शुक्रवासरे अवदत् यत् भारते एकोऽपि निर्धनः जनः मृत्तिका-निर्मित-गृहे न निवत्स्यति। सर्वेभ्यः पक्क-गृह-प्रदानं प्रधानमन्त्रिणः नरेन्द्रमोदिनः संकल्पः अस्ति।

केन्द्रीय-मन्त्री शिवराज-सिंह-चौहानः सातारा-जनपदस्य सैनिक-प्रांगणे प्रधानमन्त्री-आवास-योजना (ग्रामीण) अन्तर्गतं आयोजितं कार्यक्रमं सम्बोधयति स्म। तेन उक्तं यत् प्रधानमन्त्रिणः परामर्शानुसारं महाराष्ट्र-राज्याय एकस्मिन् वर्षे ३०-लक्ष-गृह-निर्माणस्य लक्ष्यं प्रदत्तम् आसीत्। देशस्य अन्य-कस्मैचित् राज्याय एतादृशं लक्ष्यं न प्रदत्तम्। केवलं महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र-फडणवीसः एतां उपलब्धिं प्राप्तवान्। तं अभिनन्दन् तेन उक्तं यत् एतादृशं विशालं लक्ष्यं तेन सफलतया प्राप्तम्।

तेन उक्तं यत् प्रत्येकं गृहं सौर-ऊर्जा-समन्वितं कर्तुं, शून्य-विद्युत्-शुल्क-व्यवस्था स्थापयितुं, अल्प-समये पञ्च-लक्ष-गृहाणां निर्माणं पूर्णं कर्तुं, भूमिहीन-जनानां कृते एक-लक्ष-रूप्यकाणां साहाय्यं दातुं च सर्वकारेण क्रान्तिकारी-कार्याणि कृतानि। तेन विश्वासः व्यक्तीकृतः यत् अवशिष्टानि गृहाणि अपि शीघ्रमेव पूर्णानि भविष्यन्ति।

महिला-सशक्तीकरणस्य विषये भाषमाणः शिवराज-सिंह-चौहानः अवदत् यत् देशे ३-कोटि महिलाः “लखपति-दीदी” अभवन्, अधुना च ६-कोटि “लखपति-दीदी”-निर्माणस्य लक्ष्यं निर्धारितम् अस्ति। महाराष्ट्रे १-कोटि महिलानां लखपति-निर्माणस्य निर्णयः अपि कृतः। तेन उक्तं यत् ग्रामीण-क्षेत्र-विकासार्थं “विकसित-भारत-जी-रामजी-योजना” १ जुलाई-मासात् आरभ्य प्रवर्तिष्यते। अस्याः योजनायाः माध्यमेन ग्रामीण-क्षेत्रेषु परिवर्तनं भविष्यति। ग्रामस्य विकास-योजना ग्रामे एव निर्मास्यते तथा ग्रामीण-विकासस्य गतिः अपि वर्धिष्यते इति तेन विश्वासः व्यक्तः।

केन्द्रीय-मन्त्री अवदत् यत् सः निर्धन-सेवां भगवतः पूजारूपेण मन्यते। वयं कृषकाणां कृषिक्षेत्रस्य च उन्नयनार्थं प्रतिबद्धाः स्मः। पलाण्डु-उत्पादकानां समस्यायाः विषये महाराष्ट्रस्य मुख्यमन्त्रिणा सह चर्चा कृता। पश्चिम-एशिया तथा बाङ्ग्लादेशे सङ्कटस्य कारणेन पलाण्डु-मूल्येषु न्यूनता जाता, येन उत्पादकाः संकटे सन्ति। तेषां साहाय्यार्थं नाफेड-संस्थया १२.३५ रूप्यक-प्रतिदरं पलाण्डु-क्रयः आरब्धः। कपासः, सोयाबीनः, अरहर-दालः इत्यादीनां बहूनां कृष्युत्पादानां न्यूनतम-समर्थन-मूल्यं वर्धितम्। शीघ्रमेव शर्करायाः न्यूनतम-समर्थन-मूल्य-विषये अपि सकारात्मकः निर्णयः भविष्यति इति तेन उक्तम्।

केन्द्रीय-मन्त्री चौहानः अवदत् यत् देशस्य धनस्य समयस्य च संरक्षणार्थं ‘एक-राष्ट्रम्, एक-निर्वाचनम्’ इत्यस्य सिद्धान्तानुसारं लोकसभा-विधानसभा-निर्वाचनानि एकत्र एव आयोजनीयानि। प्रधानमन्त्रिणः नरेन्द्रमोदिनः एषः विचारः सर्वैः समर्थनीयः इति तेन उक्तम्। सङ्कट-कालेषु सर्वैः एक-राष्ट्ररूपेण एकत्र स्थित्वा प्रधानमन्त्रिणः आह्वानानां सकारात्मक-प्रतिक्रिया दातव्या इति अपि तेन आवेदितम्।

मुख्यमन्त्री देवेन्द्र-फडणवीसः अवदत् यत् महाराष्ट्रे एकस्मिन् वर्षे ३०-लक्ष-गृह-निर्माणस्य लक्ष्यं पूर्णीकृतम्, यत् देशे अद्यावधि सर्वाधिकम् अस्ति। गृह-निर्माणार्थं ९-सहस्र-कोटि-रूप्यकाणि प्राप्तानि। वयं तीव्र-गत्या कार्यं कुर्मः तथा पञ्च-लक्ष-निर्गृह-जनानां कृते गृह-कुञ्जिकाः वितरामः। अग्रिम-वर्षे १५-लक्ष-जनानां कृते गृह-कुञ्जिकाः प्रदास्यामः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः “सर्वेभ्यः पक्व-गृहम्” इति स्वप्नस्य साकारार्थं वयं दिवा-निशं कार्यं करिष्यामः तथा आगामी-पञ्च-वर्षेषु महाराष्ट्रस्य प्रत्येकं निर्गृह-जनाय पक्व-गृहं प्रदास्यामः इति तेन विश्वासः व्यक्तः।

अस्मिन् अवसरे पालक-मन्त्री शंभूराज-देसाई, सार्वजनिक-निर्माण-मन्त्री छत्रपति-शिवेन्द्रसिंहराजे-भोसले, ग्रामीण-विकास-पञ्चायतराज-मन्त्री जयकुमार-गोरे, केन्द्रीय-ग्रामीण-विकास-मन्त्रालयस्य संयुक्त-सचिवः अमित-शुक्लः, ग्रामीण-विकास-विभागस्य प्रधान-सचिवः एकनाथ-दावले, ग्रामीण-विकास-संस्थाया: प्रकल्प-निदेशकः विश्वास-सिद्, उप-निदेशिका राजलक्ष्मी-येरपुडे इत्यादयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan