Enter your Email Address to subscribe to our newsletters

गुवाहाटी-नगरम्, ०२ मईमासः (हि.स.)। भारतीय-इतिहास-सङ्कलन-समितेः असम-प्रान्तस्य तत्त्वावधाने तथा कामरूप-महानगर-समितेः सहयोगेन असम-राज्यस्य राजधानी-गुवाहाटी-नगरस्य भरलुमुख-स्थिते आलोक-भवने ‘संघसाधक-मधुकर-लिमये-प्रेक्षागृहे’ शुक्रवासरे ‘पुस्तक-लोकार्पण-समारोहः’ तथा ‘सती-राधिका-शान्ति-दिवसस्य’ उपलक्ष्ये विशेष-व्याख्यानमालायाः आयोजनं कृतम्।
भारतीय-इतिहास-सङ्कलन-समितेः असम-प्रान्तेन शनिवासरे प्रकाशिते वक्तव्ये उक्तं यत् माता-कामाख्या-धाम-देवालयस्य पूर्व-दोलोई यदुनाथ-शर्मणा विरचितस्य “कवरी-बन्धन” नामकस्य ग्रन्थस्य लोकार्पणम् उत्तर-लखीमपुर-विश्वविद्यालयस्य कुलपतिना डॉ.मुकुल-चन्द्र-बोरेण कृतम्। सहैव प्रख्यात-शिक्षाविदा तथा असम-लोक-सेवा-आयोगस्य पूर्व-सदस्येन डॉ.निरंजन-कलितेन “सती-राधिका-शान्ति-दिवसस्य प्रासंगिकता” इति विषये व्याख्यानं प्रदत्तम्।
कार्यक्रमे विशिष्टातिथिरूपेण असम-साहित्य-सभायाः पूर्व-उपाध्यक्षः कनक-चन्द्र-शर्मा तथा कामाख्या-देवालयस्य दोलोई कविन्द्र-प्रसाद-शर्मा उपस्थितौ आस्ताम्।
कार्यक्रमस्य शुभारम्भः द्वाभ्यां बाल-कलाकाराभ्यां आराध्या-बर्मन तथा आश्वास-आयुस्मान-द्वारा प्रस्तुतेन मङ्गलाचरणेन दुर्गा-स्तुत्या च अभवत्। अखिल-भारतीय-इतिहास-सङ्कलन-योजनायाः नूतन-दिल्ली-स्थितस्य राष्ट्रीय-महासचिवस्य हेमन्त-धिङ्ग-मजूमदारस्य मार्गदर्शने आयोजिते अस्मिन् कार्यक्रमे प्रायः अर्धशताधिकाः (१५०) इतिहास-प्रेमिणः साहित्य-अनुरागिणः च उपस्थिताः आसन्।
स्वस्य संबोधने तेन राष्ट्रीय-स्वयंसेवक-संघस्य शताब्दी-वर्षस्य सन्दर्भे “पञ्च-परिवर्तन” इति विषयम् अधिकं प्रकाशयन् वर्तमान-काले सामाजिक-समरसतायाः उत्कृष्ट-उदाहरणरूपेण ऐतिहासिक-पात्रं सती-राधिका इत्यस्य उल्लेखः कृतः।
कार्यक्रमस्य सञ्चालनं कामरूप-महानगर-समितेः महिला-टोल्याः सदस्या रोजी-पाठकेन कृतम्। अन्ते भारतीय-इतिहास-सङ्कलन-समितेः असम-प्रान्तस्य प्रचार-प्रमुखेन प्राञ्जल-दासेन धन्यवाद-ज्ञापनं कृतम् तथा च ‘कल्याण-मन्त्रेण’ सह कार्यक्रमस्य समापनम् अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता