Enter your Email Address to subscribe to our newsletters

भाेपालम्, 02 मईमासः (हि.स.)।मुख्यमन्त्री डॉ. मोहनयादवः अद्य शनिवासरे भोपालस्य कुशाभाऊ ठाकरे सभागारे इनोवेशन्स इन ग्रीन बिल्डिंग प्रेक्टिसेस इति राष्ट्रियसम्मेलने सम्मिलितः भविष्यति। अस्मिन् सम्मेलने निर्माणक्षेत्रे कार्बन-फुटप्रिन्ट न्यूनं कर्तुं प्रभावी उपायानां विषये विस्तरेण चर्चा भविष्यति। सहैव आधुनिकतन्त्राणां यथा- 3D प्रिंटिंग, स्मार्टग्लास तथा पुनर्नवीनीकरण सामग्रीणाम् उपयोगे अपि विशेषज्ञाः मन्थनं करिष्यन्ति।
सम्मेलने भवनानां पर्यावरणानुकूलं निर्माणं प्रति विशेषः बलः भविष्यति। सौर-ऊर्जायाः अधिकतम-उपयोगः, प्राकृतिक-प्रकाशः, उत्तम-वायु-सञ्चारं च प्रवर्धयितुं सहैव वर्षाजल-सञ्चयनं तथा अपशिष्टजल-पुनर्चक्रण-प्रणालीनां स्वीकरणे अपि ध्यानं केन्द्रितं भविष्यति।
मुख्यमन्त्रिणः अद्यतनीयः कार्यक्रमः
मुख्यमन्त्रिणः डॉ. मोहनयादवस्य अद्यतनः दिवसः व्यस्तकार्यक्रमैः पूर्णः भविष्यति। सः प्रातः एकादशवादने कुशाभाऊ ठाकरे सभागारं प्राप्य सम्मेलने भागं ग्रहीष्यति, ततः परम् अपराह्णे विंशत्युत्तर-द्वादशवादने (12:20) स्वकीयं निवासं प्रत्यागमिष्यति। पुनः सार्ध-एकवादने (1:30) सः अटल बिहारी वाजपेयी सुशासन एवं नीति विश्लेषण संस्थानम्, भोपालं प्राप्स्यति, यत्र प्रायः होरात्रयं यावत् अधिकारिभिः सह विविधविषयेषु चर्चां करिष्यति। ततः परं सायङ्काले पञ्चविंशत्युत्तर-चतुर्वादने (4:25) मुख्यमन्त्री पुनः स्वकीयं निवासं प्रत्यागमिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता