Enter your Email Address to subscribe to our newsletters


सारणम्, 02 मईमासः (हि.स.)।
पञ्चायतीराज-विभागेन सञ्चाल्यमानायाः “मुख्यमन्त्री सोलर-स्ट्रीट-लाइट-योजना” इत्यस्य प्रगतिविषये अद्य जिलाधिकारिणो वैभव श्रीवास्तवस्य अध्यक्षतायां समीक्षा-सभा आयोजिता। अस्यां सभायां जनपदस्य सर्वेषु प्रखण्डेषु दीप-स्थापनस्य वर्तमानस्थितेः बिन्दुवार-समीक्षा कृता, लक्ष्यसिद्धये च कठोराः निर्देशाः निर्गताः।
जनपदे समग्रतया ४८,१९० सौर-दीपानां स्थापनस्य लक्ष्यं निर्धारितम्, यस्य सापेक्षतया अद्यावधि ३८,४६३ दीपाः विभिन्नेषु पञ्चायतेषु स्थापिताः सन्ति। जिलाधिकारी अवशिष्टदीपानां शीघ्रं युद्धस्तरेण स्थापनं कर्तुं आदेशं दत्तवान्।
समीक्षाकाले बनियापुर-इसुआपुर-प्रखण्डयोः कार्यगति अत्यन्तं मन्दा दृश्यता। अस्मिन् विषये कठोरं दृष्टिकोणं स्वीकृत्य जिलाधिकारी सम्बद्ध-प्रखण्ड-पञ्चायतीराज-अधिकारिभ्यः स्पष्टीकरणं याचितवान्। तथा च कार्ये प्रमादं कुर्वती “नव धर्म एनर्जी प्राइवेट लिमिटेड” नामिका संस्था असन्तोषजनक-प्रदर्शनस्य कारणेन दण्डात्मक-कार्यवाह्याः निर्देशः दत्तः।
जिलाधिकारी स्पष्टतया संचेतनां दत्तवान् यत् केवलं दीप-स्थापनं न पर्याप्तम्, अपितु अनुबन्ध-शर्तानुसारं तेषां सम्यक् परिपालनम् अपि अनिवार्यम्। यदि परिपालने विफलता भवति तर्हि संस्थासु भारी दण्डः आरोपितः भविष्यति।
सभायां एतदपि निर्देशितं यत् ये मुखियाः कार्ये अनावश्यक-विघ्नान् उत्पादयन्ति, तेषां विरुद्धं पञ्चायतीराज-अधिनियमस्य अधीनं कार्यवाही क्रियते। अन्यतः उत्तमं कार्यं कुर्वतीनाम् संस्थानां समये एव पारिश्रमिक-भुगतानं सुनिश्चितं कर्तुं अपि आदेशः दत्तः।
अस्यां सभायां जिला-पञ्चायतीराज-अधिकारी सहिताः सर्वे सम्बन्धित-अधिकारिणः तथा संस्थानां प्रतिनिधयः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार