इंदौरम् : जिंसी–लक्ष्मीबाई प्रतिमा मार्गस्य कार्यं शीघ्रम् आरप्स्यते, अतिक्रमणम् अपसारयितुं 3 दिनानां समयः , महापौरोऽकरोत् स्थलनिरीक्षणम्
इंदौरम्, 02 मईमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे जिन्सीक्षेत्रे प्रस्तावितः “जिन्सीतः लक्ष्मीबाईप्रतिमां यावत्” मार्गनिर्माणकार्यं शीघ्रमेव वेगं गमिष्यति। नालिकायाः उपरि सेतुनिर्माणकार्यं आरब्धम् अस्ति, तस्य प्रगतेः अनन्तरं मार्गनिर्माणम् अपि
महापौर ने किया स्थल निरीक्षण


इंदौरम्, 02 मईमासः (हि.स.)।

मध्यप्रदेशस्य इन्दौरनगरे जिन्सीक्षेत्रे प्रस्तावितः “जिन्सीतः लक्ष्मीबाईप्रतिमां यावत्” मार्गनिर्माणकार्यं शीघ्रमेव वेगं गमिष्यति। नालिकायाः उपरि सेतुनिर्माणकार्यं आरब्धम् अस्ति, तस्य प्रगतेः अनन्तरं मार्गनिर्माणम् अपि प्रारभ्यते।

शनिवासरे प्रातःकाले महापौरः पुष्यमित्रभार्गवः स्थलं निरीक्ष्य कार्यस्य प्रगतिं अवलोकितवान् तथा च स्थानीयनिवासिभिः सह संवादं कृतवान्।

मार्गनिर्माणस्य बाधकानि अतिक्रमणानि प्रति नगरनिगमेन कठोरता प्रदर्शिता। बहुभिः निवासिभिः स्वेच्छया स्वनिर्माणानि अपसारितानि, अवशिष्टेभ्यः जनभ्यः त्रिदिनपर्यन्तं समयः दत्तः। निर्धारितकालसीमायाः अनन्तरं नगरनिगमेन अतिक्रमणनिवारणार्थं कार्यवाही क्रियते।

महापौरः उक्तवान् यत् वर्ष २०२३ इत्यस्य मास्टरप्लानस्य अन्तर्गतं नगरस्य प्रमुखमार्गाणां समये निर्माणं अत्यावश्यकम्। जिन्सीतः लक्ष्मीबाईप्रतिमां यावत् अयं मार्गः नगरस्य यातायातजालं सुदृढं करिष्यति, गमनागमनं च सुलभं करिष्यति।

निरीक्षणसमये महापौरः निवासिभ्यः परियोजनायाः महत्त्वं अवगम्य सहयोगं याचितवान्। तेन उक्तं यत् सर्वेषां सहयोगेन एव एतत् कार्यं निर्बाधतया सम्पन्नं भविष्यति। अस्मिन् अवसर्रे अपरायुक्तः, सम्बन्धितपार्षदः, एमआईसीसदस्यः राजेन्द्रराठौरः, अश्विनीशुक्लः तथा अन्ये निगमाधिकारिणः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार