Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०२ मईमास: (हि.स.)। कैलाश-मानसरोवर-यात्रा २०२६ इत्यस्या: कृते ऑनलाइन-पञ्जीकरण-पत्रं पूरणस्य अन्तिमा तिथिः १९ मई २०२६ इति निर्धारिता अस्ति। एषा सूचना कैलाश-मानसरोवर-सेवा-समितेः उत्तरप्रदेशस्य अध्यक्षेन के.के. सिंहेन तथा महासचिवेन डॉ.आर.एस.भदौरिया-इत्यनेन शनिवासरे दत्ता।
तेन उक्तं यत् भारत-सर्वकारस्य kmy.gov.in इत्यस्मिन् जालपुटे प्रवेशं कृत्वा यात्रायाः पञ्जीकरणं कर्तुं शक्यते।
मीडिया-प्रभारी अनिल-तिवारी अवदत् यत् यात्रायां गच्छन्तः यात्रिणः पञ्जीकरणाय स्वस्य ईमेल-आइडी, दूरभाष-सङ्ख्या, रक्त-समूहः, परिवारस्य द्वयोः सदस्ययोः नाम-सम्बद्ध-जानकारी, तेषां दूरभाष-सङ्ख्या, तथा पासपोर्ट-आकार-छायाचित्रं एवं पासपोर्ट-इत्यस्य प्रथम-शेष-पृष्ठयोः स्पष्ट-प्रतिलिपिं अपलोड् कर्तव्यम्।
कैलाश-मानसरोवर-यात्रायाः निःशुल्क-जानकारी-सेवा-सहाय्याय च ९४१५००४४८२, ९४५४४१२०५०, ९८३८७५३९३८ तथा ९४५१३०७२४९ इति दूरभाष-सङ्ख्यासु सम्पर्कं कर्तुं शक्यते। पञ्जीकरणानन्तरं तस्य प्रतिलिपिः उक्तेषु सङ्ख्यासु प्रेषणीयम् इति अपि निर्देशः दत्तः।
हिन्दुस्थान समाचार / Dheeraj Maithani