Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, ०२ मे-मासः (हि.स.)। मध्यप्रदेशस्य खेल-युवा-कल्याण-विभागस्य अन्तर्गतं संचालिते एमपी-राज्य-शूटिंग-अकादम्यां भोपाल-नगरे “24तमी कुमारसुरेन्द्रसिंह-मेमोरियल-राष्ट्रीय-शूटिंग-चैंपियनशिप-स्पर्धा” अद्य शनिवासरे भव्यरूपेण आरभ्यते। इयं प्रतियोगिता १५ मे-मास-पर्यन्तं प्रचलिष्यति।
अस्यां महाप्रतियोगितायां देशस्य विभिन्नेभ्यः राज्येभ्यः आगताः ३०००-तः अधिकाः क्रीडकाः भागं गृह्णन्ति।
जनसम्पर्क-अधिकारी दुर्गेश-रायकवारः अवदत् यत् इयं प्रतिष्ठिता राष्ट्रीय-स्तरीया स्पर्धा भारतीय-राष्ट्रीय-राइफल-संघस्य (NRAI) तत्वावधाने आयोज्यते। अस्यां प्रतियोगितायां ४२ राज्येभ्यः, सेनायाः तथा अर्धसैनिक-बलानां च प्रायः ३००० बालक-बालिकाः, पुरुषाः, महिलाश्च १० मीटर एयर-राइफल तथा ५० मीटर राइफल स्पर्धासु यूथ-जूनियर-सिनियर-वर्गेषु भागं गृह्णन्ति।
इयं प्रतियोगिता भारतीय-निशानेबाजी-क्रीडायाः समृद्ध-परम्परायाः, अनुशासनस्य तथा उत्कृष्टतायाः प्रतीकत्वेन मन्यते।
प्रतियोगितायां देशस्य ख्यातिप्राप्ताः ओलम्पियन-अन्ताराष्ट्रिय-क्रीडकाः अपि भागं गृह्णन्ति, यथा— स्वप्निल-कुशाले, ऐश्वर्य-प्रताप-सिंहः, अंजुम-मुद्गिलः, स्मृति-कौरः, इला-वेनीलः इत्यादयः। एतेषां सहभागेन स्पर्धायाः स्तरः अधिकः प्रतिस्पर्धात्मकः आकर्षकश्च भविष्यति।
मध्यप्रदेश-राज्य-शूटिंग-अकादम्याः प्रायः ४० क्रीडकाः अपि अस्मिन् आयोजने भागं गृह्णन्ति। तेषु ऐश्वर्य-प्रताप-सिंहः विशेषाकर्षणस्य केन्द्रम् अस्ति, येन अतीतासु विश्वस्तरीय-प्रतियोगितासु रजतपदकं प्राप्तम्।
राज्य-सर्वकारेण क्रीडकानां कृते उन्नत-प्रशिक्षण-सुविधाः, आधुनिक-शूटिंग-रेंज, आर्थिक-सहायता तथा प्रोत्साहन-योजनाः प्रदीयन्ते। राज्यस्य लक्ष्यं अस्ति यत् क्रीडकाः न केवलं राष्ट्रिय-स्तरे, अपितु ओलम्पिक-विश्वस्तरे अपि उत्कृष्टं प्रदर्शनं कुर्युः।
उद्घाटन-समारोहः अद्य ०२ मे दिनाङ्के सहकारिता-खेल-युवा-कल्याण-मन्त्री विश्वास-कैलाश-सारङ्ग इत्यादीनां विशिष्ट-अतिथीनां उपस्थितौ सम्पाद्यते।
मध्यप्रदेश-राज्य-शूटिंग-अकादम्याः स्थापना २००७ तमे वर्षे अभवत्, यस्याः क्रीडकैः अद्य यावत् १०००-तः अधिकाः राष्ट्रीय-पदकानि तथा १७०-तः अधिकानि अन्ताराष्ट्रिय-पदकानि अर्जितानि। एषा अकादमी ओलम्पिक-एशियन-गेम्स-आदिषु अपि उल्लेखनीयं योगदानं कृतवती अस्ति।
एषा प्रतियोगिता नवोदित-क्रीडकानां प्रतिभा-प्रदर्शनाय महत्त्वपूर्णं मंचं प्रदास्यति तथा च राज्ये शूटिंग-क्रीडायाः विकासे नूतनां दिशां दास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता