वाराणसी - अष्टवर्षेभ्यो ध्वस्तस्य औरंगाबाद मार्गस्य निर्माणेन स्थानीयजनेषु प्रसन्नता
वाराणसी, 02 मईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी नगरनिगमस्य वित्तायोगनिधियोजनायाः अन्तर्गतं जयपुरमूर्तिभण्डारात् औरंगाबादचतुष्पथपर्यन्तं ध्वस्तस्य मार्गस्य पुनर्निर्माणं सम्पन्नम् अस्ति। अष्टवर्षाणि यावत् ध्वस्तस्थितौ स्थितस्य औरंगाबादमार्गस्य
निर्माण के बाद औरंगाबाद मार्ग


वाराणसी, 02 मईमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणसी नगरनिगमस्य वित्तायोगनिधियोजनायाः अन्तर्गतं जयपुरमूर्तिभण्डारात् औरंगाबादचतुष्पथपर्यन्तं ध्वस्तस्य मार्गस्य पुनर्निर्माणं सम्पन्नम् अस्ति। अष्टवर्षाणि यावत् ध्वस्तस्थितौ स्थितस्य औरंगाबादमार्गस्य त्रिशत्पञ्चषष्टि-मीटर-दीर्घा एषा सडक् अष्टादशलक्षषष्टिसहस्ररूप्यकव्ययेन निर्मिता इति कारणेन स्थानीयजनानां मध्ये हर्षोल्लासस्य वातावरणं दृश्यते।

नगरनिगमस्य पितृकुण्डमतदानकेंद्रस्य पार्षदः तथा अमरेश गुप्ता उमंग शनिवासरे अवदत् यत् औरंगाबादमार्गस्य निर्माणार्थं बहुवर्षाणि यावत् लिखितरूपेण प्रार्थनापत्राणि प्रदत्तानि आसन्। पितृकुण्डवार्डसंख्या ८६ अन्तर्गतस्य अस्य मार्गस्य ध्वंससम्बद्धाःपरिवादाः पुनःपुनः अशोक तिवारी महोदयाय निवेदिताः आसन्। अस्मिन् वर्षस्य अर्थसंकल्पे डॉ. नीलकंठ तिवारी तथा महापौरः अशोकतिवारी च स्थानीयजनानां मागं स्वीकृतवन्तौ।

अस्य मार्गस्य निर्माणकार्यं गतायां रात्रौ आरब्धं, अद्य (शनिवासरे) प्रातःकाले समाप्तम्। प्रातःकाले एव स्थानीयजनाः नूतननिर्मितां सडकं दृष्ट्वा अत्यानन्दं अनुभूतवन्तः। ते सर्वे जनाः मार्गनिर्माणस्य कृते मां धन्यवादं दत्तवन्तः, तथैव अन्येभ्यः स्थानीयजनप्रतिनिधिभ्यः अपि कृतज्ञतां व्यक्तवन्तः।

---------------

हिन्दुस्थान समाचार