कुटम्ब प्रबोधन गोष्ठ्यां संयुक्त परिवाराणां विकीर्णता चिंतिता
लखनऊ, 02 मईमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी लखनऊनगरे शनिवासरे राष्ट्रधर्म मासिकपत्रिकायाः कार्यालये आयोजितायां गोष्ठ्यां दुर्बलतां गच्छन्तीनां संयुक्तकुटुम्बव्यवस्थानां विषये चिन्ता व्यक्ता। गोष्ठ्यां उपस्थितानां सर्वेषां वक्तॄणां मतम् आसीत्
राष्ट्रधर्म पत्रिका के कार्यालय में आयोजित गोष्ठी में संयुक्त परिवारों को लेकर आयोजित वक्तागण चर्चा करते हुए।


लखनऊ, 02 मईमासः (हि.स.)।

उत्तरप्रदेशस्य राजधानी लखनऊनगरे शनिवासरे राष्ट्रधर्म मासिकपत्रिकायाः कार्यालये आयोजितायां गोष्ठ्यां दुर्बलतां गच्छन्तीनां संयुक्तकुटुम्बव्यवस्थानां विषये चिन्ता व्यक्ता। गोष्ठ्यां उपस्थितानां सर्वेषां वक्तॄणां मतम् आसीत् यत् शनैः शनैः संस्कारेषु ह्रासः दृश्यते, अतः अस्मिन् विषये सजगता सक्रियता च अत्यावश्यकाः।

गोष्ठ्याः विषयः कुटुम्बप्रबोधनम् आसीत्, यत् राष्ट्रीयस्वयंसेवकसंघस्य पञ्चपरिवर्तनकार्यक्रमेषु एकम् अस्ति। गोष्ठ्याः सञ्चालनं राष्ट्रधर्मनिदेशकः डॉ ओमप्रकाशेन कृतम्।

कार्यक्रमे लखनऊविश्वविद्यालयस्य प्राध्यापकः सौरभमालवीय उक्तवान् यत् कुटुम्बे निवसता सद्भिः संस्कारैः परस्परप्रेम्णा नैतिकतया राष्ट्रप्रेम्णा च शिक्षणं लभ्यते। यदा एते भावाः कस्यचित् व्यक्तेः अन्तः उत्पद्यन्ते तदा सः सम्पूर्णं समाजं सह नयति।

जयप्रकाशपाण्डेयः संयुक्तकुटुम्बानां विघटनस्य विषये चिन्तां व्यक्तवान् तथा भविष्ये सर्वं शुभं भविष्यति इति आशां व्यक्तवान्। गौसियाखानम् अपि उक्तवती यत् कुटुम्बेषु संस्काराः न्यूनाः भवन्ति, अतः अस्माभिः सजगैः भवितव्यम्।

अमितकुमारमल्लः उक्तवान् यत् कुटुम्बव्यवस्थायाः उपरि अत्यधिकाः आक्रमणाः भवन्ति, यत् अत्यन्तं चिन्ताजनकम्। तेन उक्तं यत् अविवाहितयुगलानां संख्या वर्धते, विवाहिताः अपि सन्तानान् न इच्छन्ति, तलाकप्रकरणानि शीघ्रं वर्धन्ते, वृद्धानां स्थायीस्थानं वृद्धाश्रमाः भवन्ति। एतेषु सर्वेषु विषये समाजेन सामूहिकरूपेण चिन्तनं कर्तव्यम्।

गोष्ठ्याः अध्यक्षः बाबूलालशर्मा उक्तवान् यत् सर्वेषां सम्मानः कुटुम्बस्य मूलभावना अस्ति। असहमत्यां अपि वैमनस्यभावः न भवेत्, विविधतायां एकताभावस्य पोषणं कर्तव्यम्।

अस्मिन् अवसरे अशोकबाजपेयी, के के वत्स, कुमारअशोकपाण्डेय, सन्तोषतिवारी, मृत्युंजयदीक्षित, राजेन्द्रशंकरद्विवेदी तथा आलोकत्रिपाठी अपि स्वस्वविचारान् व्यक्तवन्तः।

---------------

हिन्दुस्थान समाचार