Enter your Email Address to subscribe to our newsletters

देहरादून-नगरम्, ०२ मईमासः (हि.स.)। टिहरी-गढ़वाल-जनपदस्य जौनपुर-खण्डान्तर्गत देवन-ग्रामस्य पूजा-कण्डारी नाम्नः कथानकं अस्य सशक्तं उदाहरणम् अस्ति यत् सम्यक् मार्गदर्शनेन तथा सरकारी-सहयोगेन ग्रामीण-स्त्रियः अपि स्वावलम्बिन्यः भवितुं शक्नुवन्ति।
पूर्वं पूजा-कण्डारी सामान्य-गृहिणी आसीत्। गृह-कर्तव्येषु एव सीमिते जीवनयात्रायां तस्याः आयस्य कश्चन स्थायी-स्रोतः नासीत्। तस्मिन् काले पशुपालन-विभागस्य ‘गोट-वैली-योजना’ तस्यै नूतनम् अवसरं प्रदत्तवती। वर्षे २०२३ तमे मुख्यमन्त्रिणः पुष्कर-सिंह-धामी-नेतृत्वे सञ्चालितायाः अस्याः योजनायाः अन्तर्गतं तस्यै त्रिवर्षीय-अवधये एक-लक्ष-रूप्यकाणां ब्याज-रहित-ऋणं स्वीकृतम्। सहैव ३९ सहस्र-रूप्यकाणां अनुदानं (सब्सिडी) अपि प्रदत्तम्। योजनायाः अन्तर्गतं तस्यै पञ्च अजाः तथा एकः अजः (बकरः) प्रदत्ताः। ऋणस्य साहाय्येन सा कुलं पञ्चदश-अजाभिः सह पशुपालन-कार्यं आरब्धवती। आरम्भे अनुभवः अल्पः आसीत्, किन्तु विभागीय-प्रशिक्षणेन निरन्तर-परिश्रमेण च तस्याः दिशा परिवर्तिता।
पन्तवाड़ी-पशु-चिकित्सालयस्य पशु-चिकित्सा-अधिकारिणी डॉ.अनमोल-नौटियाल-अनुसारं विभागेन अजाः प्रदत्ताः, तदनन्तरं नियमित-टीकाकरणं, औषधानि, वैज्ञानिक-तथा-प्राविधिक-प्रशिक्षणं च अपि प्रदत्तम्। अस्यैव परिणामः अस्ति यत् अद्य पूजा-कण्डार्याः पशुधन-संख्या ३० तः ४० पर्यन्तं वर्धिता। अधुना सा प्रतिवर्षं प्रायः एक-लक्षात् एक-लक्ष-पञ्चाशत्-सहस्र-रूप्यकाणां पर्यन्तं आयं अर्जयति। अनेन तस्याः परिवारस्य आर्थिक-स्थिति सुदृढा जाता तथा सा पूर्णतया स्वावलम्बिनी अभवत्।
डॉ.नौटियाल: अन्येषां पशुपालकानाम् अपि सन्देशं दत्तवती यत् पशुपालनं केवलं पशूनां पालनपर्यन्तं न सीमितम्। यदि तत् वैज्ञानिक-पद्धत्या प्राविधिक-सहयोगेन सह क्रियते, तर्हि तत् स्थायिनः आयस्य सशक्तं साधनं भवितुं शक्नोति।
पूजा-कण्डारी अद्य स्वग्रामस्य अन्यासां महिलानां कृते प्रेरणा-स्रोतः अस्ति। तस्याः सफलता दर्शयति यत् यदा योजनाः सम्यक् लाभार्थिभ्यः प्राप्नुवन्ति तथा निरन्तरं प्राविधिक-सहयोगः लभ्यते, तदा ग्रामीण-क्षेत्रेषु अपि स्वरोजगारस्य सुदृढा आधारशिला स्थापयितुं शक्यते। पशुपालन-विभागः भविष्ये अपि अन्येषां लाभार्थिनां कृते औषधानि, टीकाकरणं तथा प्राविधिक-सहाय्यं प्रदातुं प्रतिबद्धः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता