Enter your Email Address to subscribe to our newsletters

रायबरेली, 26 मईमासः (हि.स.)। लोकसभायां विपक्षनेता सांसदः राहुलगान्धी प्रधानमन्त्रीं गृहमन्त्रिणं च प्रति विवादास्पदटिप्पण्याः कारणेन पुनः न्यायिकप्रक्रियायां संलग्नः जातः। एकेन मुस्लिमभाजपानेत्रा रायबरेलीन्यायालये राहुलगान्धिविरुद्धं परिवादः पञ्जीकृतः। न्यायालयेन परिवादः स्वीकृतः तथा अग्रिमश्रवणस्य तिथिः १६ जून इति निर्धारिता।
शकीलअहमदखानः अवदत् यत् राहुलगान्धिना प्रतिशोधभावनया देशस्य प्रधानमन्त्री तथा केन्द्रीयगृहमन्त्री प्रति आपत्तिजनका टिप्पणी कृता। अस्य कारणेन तस्मै गम्भीरः आघातः जातः तथा तस्य मानहानिः अपि अभवत्। याचिकाकर्त्रा आरोपः कृतः यत् राहुलगान्धिना देशस्य वातावरणं दूषयितुं सार्वजनिकमञ्चात् टिप्पणी कृत्वा प्रधानमन्त्री, गृहमन्त्री तथा भाजपादलस्य छविः मलिनी कृता। शकीलअहमदखानः उक्तवान् यत् राहुलगान्धिविरुद्धं पुलिसस्तरेण कापि कार्यवाही न कृता, अतः तेन एमपी-एमएलए न्यायालयस्य द्वारम् आहतम्। न्यायालयेन प्रकरणं स्वीकृत्य श्रवणार्थं १६ जून इति तिथिः निर्धारिता।
उल्लेखनीयं यत् सोमवासरे जनपदस्य न्यायालये पञ्चम अपर सिविलजज् (जूनियर डिवीजन) विनयशीलस्य न्यायालये भाजपानेता शकीलअहमदखानः मानहानिपरिवादं पञ्जीकृतवान्। तेन न्यायालयात् राहुलगान्धिविरुद्धं एफआईआर् पञ्जीकरणस्य आदेशः दातव्यः इति प्रार्थना कृता।न्यायालयेन परिवादः पञ्जीकृतः।
Hindusthan Samachar / Dheeraj Maithani