निवेशकानां सहयोगेन सहायतापटलस्य शुभारंभः
नवदिल्ली, 26 मईमासः (हि.स.)। केन्द्रीयइलेक्ट्रॉनिक्स् तथा सूचनाप्रौद्योगिकीमन्त्रालयस्य तत्वावधाने इंडिया सेमीकण्डक्टर मिशन (आईएसएम) इत्यनेन वैश्विकदेशीयनिवेशकानां उद्योगजगतः प्रमुखानां च साहाय्यार्थं विशेषनिवेशकसहायता-ऑनलाइन-पोर्टलम् आरब्धम्।
प्रतीकात्मक चित्र


नवदिल्ली, 26 मईमासः (हि.स.)।

केन्द्रीयइलेक्ट्रॉनिक्स् तथा सूचनाप्रौद्योगिकीमन्त्रालयस्य तत्वावधाने इंडिया सेमीकण्डक्टर मिशन (आईएसएम) इत्यनेन वैश्विकदेशीयनिवेशकानां उद्योगजगतः प्रमुखानां च साहाय्यार्थं विशेषनिवेशकसहायता-ऑनलाइन-पोर्टलम् आरब्धम्।

इलेक्ट्रॉनिक्स् तथा सूचनाप्रौद्योगिकीमन्त्रालयस्य अनुसारं सरकारः देशे सुदृढं विश्वसनीयं टिकाऊ च सेमीकण्डक्टर-इकोसिस्टम् विकसितुं निरन्तरं प्रयत्नशीलम् अस्ति। अस्याश्शृंखलायाः अन्तर्गतं आईएसएम इत्यनेन वैश्विकदेशीयनिवेशकानां उद्योगजगतः प्रमुखानां च साहाय्यार्थं विशेषनिवेशकसहायता-ऑनलाइन-पटलम् आरब्धम्। एतत् पोर्टल् अधुना वेबसाइट् आईएसएम डॉट् जीओवी डॉट् इन स्लैश् इन्वेस्ट्मेण्ट इत्यत्र सजीवरूपेण उपलब्धम् अस्ति।

एतत् डिजिटल् प्लेटफॉर्म् मुख्यतया निवेशकानां विश्वासवर्धनार्थं भारते निवेशप्रक्रियाणां सरलीकरणार्थं च निर्मितम् अस्ति। भारते निवेशं कर्तुम् इच्छन्तः निवेशकाः अधुना सरकारीयोजनानां, नीतिनां, अनुमोदितपरियोजनानां तथा विनियामकावश्यकतानां सम्बन्धिनीं सर्वां सूचनां एकस्मिन्नेव पोर्टले प्राप्तुं शक्नुवन्ति।

निवेशकाः स्वस्य कस्यापि समस्यायाः अथवा शिकायतायाः पञ्जीकरणं अस्मिन् पटले कर्तुं शक्नुवन्ति। अस्य अतिरिक्तं सर्वेषां सम्बन्धितहितधारकाणां मध्ये उत्तमसमन्वयार्थं सुरक्षितं भूमिकाआधारितं एकलखिडकी-डिजिटल्-इण्टरफेस् निर्मितम् अस्ति, येन समस्याः समयबद्धरूपेण समाधातुं शक्यन्ते।

प्रक्षेपणकार्यक्रमस्य समये आईएसएम इत्यस्य मुख्यकार्यकारीअधिकारी अमितेशकुमारसिन्हा विदेशीयनिवेशकानां प्रति सर्वप्रकारसहयोगसुविधानां च प्रदाने विशेषं बलम् अददात्। तेन उक्तं यत् देशे सेमीकण्डक्टर-विनिर्माण-डिजाइन-इकोसिस्टम् सुदृढीकरणार्थं सर्वैः विभागैः निवेशकानां चिन्तानां समाधानार्थं सक्रियभूमिका निर्वहणीया। अस्य पोर्टलस्य माध्यमेन इंडिया सेमीकण्डक्टर मिशनस्य अधिकारी विभिन्नमन्त्रालयैः, राज्यसरकारैः, अनुमोदितपरियोजनाकम्पनीभिः तथा राष्ट्रिय-अन्ताराष्ट्रियव्यापारनिकायानां नोडलाधिकारिभिः सह मिलित्वा कार्यं करिष्यन्ति। अस्मिन् अवसरे सर्वेभ्यः नोडलाधिकारिभ्यः पोर्टलस्य संरचनायाः, कार्यक्षमतानां, ऑनबोर्डिङ्ग-प्रक्रियायाः तथा तेषां दायित्वानां विषये विस्तरेण सूचना प्रदत्ता।

उल्लेखनीयं यत् सेमीकॉन इण्डिया कार्यक्रमस्य अन्तर्गतं अद्यावधि १२ फैब, पैकेजिङ्ग्-परियोजनाभिः सह २४ सेमीकण्डक्टर-डिजाइन-परियोजनाः अपि अनुमोदिताः सन्ति।

------------

Hindusthan Samachar / Dheeraj Maithani