Enter your Email Address to subscribe to our newsletters

विपुलअमृतलालशाहनिर्मितस्य ‘गवर्नर’ इत्यस्य बहुप्रतीक्षितः ट्रेलरः विमोचितः अस्ति। एषा चलचित्रकथा भारतस्य आर्थिकइतिहासस्य तं कालखण्डं विशालपटले प्रस्तोष्यति, यदा १९९० तमे वर्षे देशः आर्थिकसंकटस्य दिवालियापनस्य च सीम्नि उपविष्टः आसीत्। मराठीचलच्चित्रजगतः प्रसिद्धनिर्देशकः चिन्मयमांडलेकरनिर्देशिते अस्मिन् चलचित्रे मनोजबाजपेयी मुख्यभूमिकायां दृश्यते। ट्रेलरविमोचनानन्तरं चलचित्रस्य विषये दर्शकानाम् उत्सुकता अधिका जाता।
प्रायः अर्धत्रिमिनिटपरिमितः अयं ट्रेलरः देशस्य कठिनतमस्य आर्थिककालस्य झलकं दर्शयति। पतन्ती अर्थव्यवस्था, जनानां क्रोधः तथा सरकारस्य सम्मुखे स्थिताः महत्यः परिस्थितीः प्रभावशालिरूपेण प्रस्तुताः सन्ति। ट्रेलरे प्रदर्शितं यत् कथं एकेन ऐतिहासिकनिर्णयेन भारतं आर्थिकविनाशात् रक्षितम्। मनोजबाजपेयी कठोरप्रभावशालिगवर्नरपात्रे दृश्यते, यदा अदाशर्मा अपि महत्वपूर्णां भूमिकां निर्वहन्ती दृश्यते। चलचित्रस्य संवादाः पृष्ठसंगीतं च ट्रेलरं अधिकं प्रभावशालिनं कुर्वन्ति।
‘गवर्नर’ इति चलचित्रं सत्यघटनाभ्यः प्रेरितम् अस्ति, यत् ‘सनशाइनपिक्चर्स’ इत्यस्य ध्वजतले निर्मितम्। चलचित्रस्य कथा सुवेन्दुभट्टाचार्यः, सौरभभारतः, रविअसरानी तथा विपुलअमृतलालशाहः संयुक्तरूपेण अलिखन्। तथा च जावेदअख्तरविरचितगीतानां कृते अमितत्रिवेदी संगीतं दत्तवान्। निर्मातृभिः युवानां कृते चलचित्रस्य विशेषप्रदर्शनम् अपि आयोजितम्, येन नूतनसंततिः देशस्य अस्य महत्वपूर्णस्य आर्थिकइतिहासस्य परिचयं प्राप्नुयात्। एषा चलचित्रकृति १२ जून २०२६ दिनाङ्के चलचित्रगृहेषु प्रदर्शिता भविष्यति।
Hindusthan Samachar / Dheeraj Maithani