Enter your Email Address to subscribe to our newsletters

गङ्गटोकनगरम्, २६ मे-मासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुमहोदया अद्य सिक्किमप्रदेशस्य यात्रायां वर्तते। सा अग्रिम २८ मे-मास-पर्यन्तं सिक्किमप्रदेशस्य यात्रायां स्थास्यति। स्वयात्राकाले राष्ट्रपतिः सिक्किमविश्वविद्यालयस्य सप्तमदीक्षान्त-समारोहे अन्येषु च महत्त्वपूर्णकार्यक्रमेषु सहभागं करिष्यति।
राष्ट्रपतिः २६ मे-मासतः २८ मे-मास-पर्यन्तं सिक्किमप्रदेशस्य यात्रां करिष्यति। अद्य तस्याः पश्चिमबङ्गप्रदेशस्य बागडोगरविमानस्थानकात् हेलिकॉप्टर-यानद्वारा राजधानीस्थिते लिविङ्गप्रदेशे भारतीयसेनायाः हेलिपदम् आगमनस्य कार्यक्रमः अस्ति। ततः सा लोकभवनाय प्रस्थितवती भविष्यति।शासकीयवक्तव्यानुसारं राष्ट्रपतिः द्रौपदीमुर्मु-महोदया स्वस्याः यात्रायाः प्रथमदिने अद्य राजधानीस्थिते देवरालीप्रदेशे नामग्याल-तिब्बतविद्या-संस्थानस्य भ्रमणं करिष्यति। २७ मे-मासे प्रातःकाले सा भारत-चीनसीमाक्षेत्रस्थितं नाथूलादर्रं द्रष्टुं गमिष्यति। तस्मिन्नेव दिने अपराह्णे सा सिक्किमविश्वविद्यालयस्य सप्तमदीक्षान्त-समारोहे सहभागं करिष्यति।
स्वयात्रायाः अन्तिमदिने राष्ट्रपतिः राजधानीस्थिते पाल्जोर-क्रीडाङ्गणे आयोज्यमाने भारतस्य राष्ट्रपतेः ‘आरक्षक-कलर’ अलङ्करणसमारोहे सहभागं करिष्यति। एषः पुरस्कारः देशे उत्कृष्टसेवाकार्याणि कृतवत्यै सिक्किम-आरक्षकाय प्रदास्यते। सिक्किमप्रदेशः एतत् पुरस्कारं प्राप्नुवतां देशस्य पञ्चदशतमं राज्यम् अस्ति।
Hindusthan Samachar / Divya Ranjan