Enter your Email Address to subscribe to our newsletters


देहरादूनम्, 26 मईमासः (हि. स.) उत्तराखण्डस्य सैनिकाः पुनरेकवारं साहसस्य, अनुशासनस्य नेतृत्वस्य च परिचयं प्रदर्श्य विश्वस्य सर्वोच्चशिखरे माउण्ट् एवरेस्ट् इत्यत्र तिरङ्गध्वजं फहरयित्वा नवीनम् इतिहासं रचितवन्तः। नेशनल् सिक्योरिटी गार्ड् (एनएसजी) इत्यस्य षोडशसदस्यीया टोली २३ मई तिथौ प्रातः ३:२६ वादने नेपालसमयानुसारं ८,८४८.८६ मीटर् उच्चे माउण्ट् एवरेस्ट् इत्यत्र सफलम् आरोहणं कृतवती। विशेषतया टोली काठमाण्डूतः केवलं विंशतिदिनेषु शिखरं प्राप्य दुर्लभाम् उपलब्धिं प्राप्तवती।
अभियानस्य नेतृत्वं देहरादूननिवासी मेजर् अखिलेशभट्टः अकरोत्, यः मूलतः टिहरीगढ़वालस्य घनसालीक्षेत्रस्य निवासी अस्ति। तस्य नेतृत्वे उत्तराखण्डस्य अनेके सैनिकाः एवरेस्ट्शिखरं प्राप्तवन्तः तथा राज्यस्य गौरवं वर्धितवन्तः। अभियानस्य उपनेतृत्वस्य दायित्वं पौड़ीगढ़वालस्य सूबेदार् सुरेशकुमारबेबनी इत्यनेन स्वीकृतम्। शिखरं प्राप्तवन्तेषु उत्तराखण्डस्य अन्येषु वीरसैनिकेषु चमोलीजनपदस्य नायकः राहुलसिंहः, अल्मोड़ाजनपदस्य नायकः पङ्कजसिंहदोसादः तथा उत्तरकाशीजनपदस्य कमाण्डो गौतम्बुटोला च समाविष्टाः आसन्।
मेजरपदस्थः अखिलेशभट्टः अवदत् यत् अस्याः सफलतायाः पृष्ठभूमौ दीर्घकालपर्यन्तं कृतं कठिनप्रशिक्षणं रणनीतिकतैयारी च आसीत्। अक्टूबर् २०२५ मासे मेजर् अखिलेशभट्टस्य नेतृत्वे टोली गढ़वालहिमालयस्थितं माउण्ट् सतोपन्थ् (७०७५ मीटर्) इत्यस्य आरोहणं कृतवती। ततः परं लाहौल्-स्पीति क्षेत्रे डोगरा स्काउट्स् इत्यनेन सह कठोरशीतकालीनप्रशिक्षणं स्वीकृत्य माउण्ट् कानामो (५९७५ मीटर्) इत्यत्र अपि सफलता प्राप्ता।
एनएसजी इत्यस्य प्रवक्तुः अनुसारम् एतदभियानं संगठनस्य ध्येयवाक्यस्य ‘सर्वत्र सर्वोत्तमसुरक्षा’ इत्यस्य जीवंतम् उदाहरणम् अस्ति। विषमपरिस्थितिषु टोलीं सुरक्षितरूपेण शिखरपर्यन्तं नेतुं मेजर् अखिलेशभट्टस्य तस्य टोलीस्य च नेतृत्वं, तकनीकीदक्षता अदम्यसाहसं च स्पष्टतया दृष्टिगोचरम् अभवत्। उत्तराखण्डस्य एते वीरसपूताः केवलं प्रदेशं न, अपितु सम्पूर्णदेशं गौरवान्वितवन्तः। एवरेस्ट्शिखरे तिरङ्गध्वजेन सह देवभूमेः स्वाभिमानं लहरयित्वा एते सैनिकाः युवभ्यः एतत् सन्देशं दत्तवन्तः यत् दृढसंकल्पेन अनुशासनेन च किमपि लक्ष्यं असम्भवं न भवति।