Enter your Email Address to subscribe to our newsletters

श्रीराम मंदिर निर्माण सामूहिक संकल्पः कोटिजनानाम् आस्थायाः परिणामः : चम्पत रायः
झांसी,26 मईमासः (हि.स.)। श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य महासचिवः विहिपस्य केन्द्रीयोपाध्यक्षः चम्पतरायः अवदत् यत् विश्वहिंदुपरिषद् समाजे यूनः जागरूकान् संस्कारितांश्च कर्तुं कार्यं करोति। तेन उक्तं यत् संगठनस्य उद्देश्यं केवलं धार्मिककार्यक्रमपर्यन्तं सीमितं नास्ति, अपितु समाजस्य संगठनं जागरणं च अपि अस्ति।
सः एतानि वचनानि उत्तरप्रदेशस्य झाँसीनगरे कानपुरप्रान्तस्य विश्वहिन्दूपरिषदः दुर्गावाहिन्याः अष्टदिवसीयशौर्यप्रशिक्षणवर्गस्य द्वितीयदिने अर्थात् मङ्गलवासरे स्वसम्बोधने उक्तवान्।
श्रीरायः श्रीरामजन्मभूमिमन्दिरनिर्माणकार्यस्य प्रगतिविषये सूचनां दत्त्वा अवदत् यत् मन्दिरपरिसरे प्रायः सार्धत्रिकिलोमीटरदीर्घा चतुर्दिक्प्राचीरः निर्मीयते। अस्य सह सभागारम्, विश्रामगृहम्, न्यासकार्यालयः, हुतात्मनां स्मृत्यर्थं स्मारकः तथा रामकथासंग्रहालयस्य निर्माणम् अपि तीव्रगत्या प्रचलति। तेन विश्वासः व्यक्तीकृतः यत् वर्षे २०२७ पर्यन्तं सर्वाणि प्रमुखकार्याणि सम्पन्नानि भविष्यन्ति।
एकस्य प्रश्नस्य उत्तररूपेण तेन उक्तं यत् इच्छाः अत्यधिकाः न पोषयितव्याः, यतः यदा इच्छाः पूर्णाः न भवन्ति तदा मनुष्ये क्रोधः उत्पद्यते तथा सामाजिकजीवनम् अपि प्रभावितं भवति। तेन युवभ्यः संयमेन, धैर्येण तथा सामूहिकचिन्तनेन सह अग्रे गन्तुं शिक्षा दत्ता।
चम्पतरायः अवदत् यत् कदापि केनचित् न चिन्तितं यत् श्रीरामललायाः भव्यस्य मन्दिरस्य निर्माणकार्यं सम्पन्नं भविष्यति, किन्तु एतत् सामूहिकसंकल्पस्य कोटिशः जनानां श्रद्धायाश्च परिणामः अस्ति। तेन उक्तं यत् व्यक्तिगतचिन्तनात् महानि कार्याणि सम्भवानि न भवन्ति, अपितु समाजस्य एकीकृता भावना एव इतिहासं रचयति। अस्मिन् अवसरे तेन सह विहिपस्य प्रान्तोपाध्यक्षः विनोदअग्रवालः, निलयबोसः तथा मयङ्कगुप्तः इत्यादयः उपस्थिताः आसन्।
ध्येयम् अस्ति यत् झाँसीमहानगरे विश्वहिन्दूपरिषदः कानपुरप्रान्तस्य दुर्गावाहिन्याः प्रान्तीयः अष्टदिवसीयः शौर्यप्रशिक्षणवर्गः २४ मईतः १ जूनपर्यन्तं भानीदेवीगोयलसरस्वतीविद्यामन्दिरमहाविद्यालयः प्रचलति। अस्य कृते शुक्रवासरे भूमिपूजनकार्यक्रमः सम्पन्नः आसीत्। शौर्यप्रशिक्षणवर्गे कानपुरप्रान्तस्य २१ जनपदेभ्यः २५० बालिकाः सहभागं कुर्वन्ति, यासु १७ बालिकाः नेपालदेशात् अपि सम्मिलिताः सन्ति।
वर्गस्य मुख्योद्देश्यं बालिकानां आत्मरक्षा, अनुशासनम् तथा शारीरिकदक्षतायै सज्जीकरणम् अस्ति। अष्टदिनात्मकस्मिन् प्रशिक्षणवर्गे सहभागिन्यः दण्डसञ्चालनम्, यष्टिप्रशिक्षणम्, बाधाः अतिक्रम्य गमनम्, रज्ज्वां चलनम् तथा अन्याः साहसिकक्रियाः अभ्यासयन्ति। प्रतिदिनं २५ प्रशिक्षकाः विभिन्नविधासु प्रशिक्षणं दत्त्वा बालिकाः शारीरिकतया, मानसिकतया तथा व्यवहारिकतया दृढाः भवन्तु इति विशेषध्यानं ददति, येन ताः राष्ट्रहितेन ओतप्रोताः भूत्वा सर्वप्रकारस्य परिस्थितीनां सामना आत्मविश्वासेन कर्तुं समर्थाः भवेयुः।
---------------
Hindusthan Samachar / Dheeraj Maithani