Enter your Email Address to subscribe to our newsletters

अभिनेत्री कङ्गना रनौत पुनः एकवारं विशालपटले नूतनां प्रभावशालिनीं च कथां नेतुं सज्जा अस्ति। तस्याः आगामिन्याः चलचित्रस्य ‘भारत भाग्य विधाता – द अनसीन हीरोज’ इत्यस्य आधिकारिकघोषणा कृता अस्ति। निर्मातृभिः चलचित्रस्य शक्तिशालि चलच्चित्रसूचनापट्टः प्रकाशितः, यः प्रकाशितमात्रेण सामाजिकमाध्यमेषु चर्चायाः केन्द्रं जातः। पट्टे श्रूयमाणः संवादःयत् “किञ्चित् विशेषं कृत्वा अपि सामान्याः एव कथ्यन्ते... ते दृश्यन्ते तु, किन्तु दृष्टिगोचराः न भवन्ति...” इति दर्शकान् अत्यन्तं प्रभावितवान्।
चलच्चित्रम् ‘द अनसीन हीरोज’ इति विषये आधारितम् अस्ति, यस्मिन् समाजस्य तेषाम् अदृश्यनायकानां कथा प्रदर्शिता भविष्यति, येषां योगदानं प्रायः जनानां दृष्टेः परे एव तिष्ठति। कङ्गना रनौत अस्मिन् चलच्चित्रे मुख्यभूमिकायां दृश्यते। चलच्चित्रसूचनापट्टे चलचित्रस्य गम्भीरः प्रेरणादायकः च वातावरणः दृश्यते, येन दर्शकानां उत्सुकता अधिका अभवत्।
निर्मातृभिः चलचित्रस्य प्रदर्शनतिथेः अपि घोषणा कृता अस्ति। ‘भारत भाग्य विधाता – द अनसीन हीरोज’ इति चलचित्रं १२ जून् २०२६ तमे दिने चित्रमन्दिरेषु प्रदर्शितं भविष्यति। चलचित्रसम्बद्धया सामाजिकमाध्यमेषु प्रशंसकानां मध्ये महान् उत्साहः दृश्यते, अधुना च दर्शकाः अस्य प्रथमदृश्यस्य प्रतीक्षां कुर्वन्ति।
Hindusthan Samachar / Dheeraj Maithani