Enter your Email Address to subscribe to our newsletters

पौड़ी-गढ़वाल-जनपद:, २९ मे-मासः (हि.स.)। चौबट्टाखाल-विधानसभा-क्षेत्रस्य विकासखण्ड-एकेश्वरस्य पणखेत-स्थाने बहुउद्देशीय-शिविरस्य आयोजनं कृतम्। शिविरे मन्त्रिमण्डल-मन्त्री सतपाल-महाराजः उक्तवान् यत् प्रधानमन्त्री-नरेन्द्र-मोदिनः दूरदर्शी-मार्गदर्शने तथा मुख्यमन्त्रिणः पुष्करसिंह-धामिनः नेतृत्वे उत्तराखण्डे मार्ग-स्वास्थ्य-शिक्षा-पर्यटन-रोजगार-क्षेत्रेषु, चारधाम-मार्गे, रेल-संयोजने, चिकित्सा-महाविद्यालय-निर्माणे तथा स्वरोजगार-योजनासु निरन्तरं विकासस्य गङ्गा प्रवहति।
शुक्रवासरे आयोजिते शिविरे महाराजः उक्तवान् यत् चौबट्टाखाल-विधानसभा-क्षेत्रस्य अन्तर्गतं विकासखण्ड-एकेश्वरे विगतेषु नववर्षेषु विकासस्य अनेकानि कार्याणि सम्पन्नानि। बहुप्रतीक्षिते द्वे पम्पिङ्ग-पेयजल-योजने — भूम्या-डाण्डा तथा ज्वाल्पादेवी-ग्राम-समूह-पम्पिङ्ग-पेयजल-योजनयोः कृते ४४ कोटि: १८ लक्षं ८२ सहस्र-रूप्यकाणि स्वीकृतानि। अस्मिन् विकासखण्डे पेयजल-निगमेन ३१ कोटि: ६४ लक्षं ९३ सहस्र-रूप्यकाणि स्वीकृतानि, तथा सर्वासु योजनासु ७५ प्रतिशताधिकं कार्यं पूर्णं जातम्। जल-संस्थानेन जल-जीवन-अभियानस्य अन्तर्गतं पेयजल-सुविधा-प्रदाने १४ कोटि ६७ लक्ष ९३ सहस्र-रूप्यकाणि स्वीकृतानि।
तेन उक्तं यत् राजकीय-सिञ्चन-विभागस्य अन्तर्गतं जलवर्धन-सुरक्षा, भू-कर्तन-निरोधक-पुस्त-निर्माणं तथा कुल्या-मरम्मत-कार्येषु विकासखण्डे ३० योजनासु ८ कोटि: ५२ लक्ष-रूप्यकाणां कार्याणि सम्पन्नानि। सतपुलीतः ज्वाल्पा-सेतुपर्यन्तं त्रयस्त्रिंशत्-कोटि-रूप्यक-व्ययेन राष्ट्रिय-राजमार्गस्य विस्तारीकरणं, सुदृढीकरणं तथा डामरीकरणं कृतम्। जन-श्रवणस्य अन्तर्गतं बहुउद्देशीय-शिविरे १९ दिव्याङ्गेभ्यः विकलाङ्ग-प्रमाणपत्राणि वितरितानि, तथा सूचना-कक्षे ५८ सूचना:, ५५ याचना-पत्राणि इत्येतै: सह ११३ पत्राणि प्राप्तानि।
अस्मिन् अवसरे पूर्व-मन्त्री अमृता-रावत:, भाजपायाः युवा-मोर्चायाः पूर्व-प्रदेश-कार्यकारिणी-सदस्यः सुयश-रावत्, मोहिना-रावत्, ब्लॉक-प्रमुखः पंकज-बिष्टः, मुख्य-विकास-अधिकारी अशोक-जोशी, जनपद-विकास-अधिकारिणी मनविन्दर-कौर:, जनपद-पञ्चायत-उपाध्यक्षा आरती-नेगी,जनपद-पञ्चायत-सदस्या दीपिका-ईष्टवाल:, मण्डल-अध्यक्षः राकेश-नैथानी इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Divya Ranjan