Enter your Email Address to subscribe to our newsletters

हिन्दी-पत्रकारिता-दिवसस्य (३० मे-मास:) विशेषावसरे
डॉ. प्रभात-ओझा
यस्य समाचार-पत्रस्य प्रारम्भस्य तथ्यं स्मृत्वा वयं हिन्दी-पत्रकारिता-दिवसं आचरामः, तस्य स्मरणम् अधुना केवलं औपचारिकतामात्रं जातम् अस्ति। परम्परायाः संवहनं नूनम् उत्तमं कार्यम्, यदि तस्य सार्थकता संरक्ष्यते। किन्तु गत-द्वि-त्रि-दशकेभ्यः विपरीतम् एव दृश्यते। प्रतिवर्षं ३० मे-दिने हिन्दी-पत्रकारिता-दिवसे विविध-आयोजनानि भवन्ति, लेखाः लिख्यन्ते, परन्तु अनन्तर-दिने तेषां कार्यक्रमाणां वार्ताः अपि समाचार-पत्रेषु न दृश्यन्ते। प्रत्युत्तररूपेण एतत् वक्तुं शक्यते यत् समाचार-पत्रेषु पृष्ठ-संख्या न्यूना जाता अस्ति। राष्ट्रीय-अन्ताराष्ट्रिय-घटनाभ्यः आरभ्य स्थानीय-गतिविधीनां पर्यन्तं प्राथमिकतां निर्धारयितुं संगोष्ठीनां क्रमः बहु पश्चात् आगच्छति।
एतदपि प्रबलं तर्कम् अस्ति यत् येषां कृते गोष्ठ्यः आयोजिताः, तेषां समीपं ताः कथञ्चित् प्राप्नुवन्ति, सामान्य-जनस्य तु ताभिः सह विशेषः सम्बन्धः न भवति। अत्रैव प्राथमिक-सन्धे: आवश्यकता अस्ति। हिन्दी-पत्रकारिता-दिवसस्य मूल-प्रेरणाभूतः उदन्तमार्त्तण्डस्य पत्रम् अस्मिन् विषये “सर्चलाइट्” इव कार्यं कर्तुं शक्नोति। “सर्चलाइट्” इति शब्दस्य उपयोगः मुंशीप्रेमचन्दसाहित्यस्य विषये कृतवान्। पत्रकारिता अपि साहित्यस्य एव अंशः अस्ति, तथा च प्रेमचन्दस्य “सर्चलाइट्” पूर्वमेव युगलकिशोरशुक्लस्य “हिन्दुस्तानियों के हित के हेत” इति ध्येय-वाक्ये दृश्यते। एतदेव उदन्त मार्त्तण्ड इत्यस्य ध्येय-वाक्यम् आसीत्। यदि सम्पूर्ण-पत्रकारिता अस्मिन् ध्येय-वाक्ये स्थित्वा कार्यं कुर्यात्, तर्हि तस्य उद्देश्य-सिद्धिः सुलभा स्यात्। एतत् ध्येय-वाक्यं पत्रकारितायाः दर्पणवत् अस्ति।
“हेत” इति शब्दः वस्तुतः “हेतु” इत्यस्य तत्कालीन-कलकत्तीय-हिन्दी-रूपम् आसीत्। पत्रकारितायाः सन्दर्भे भाषायाः अपेक्षया तस्य उद्देश्यः एव महत्त्वं धारयति। अन्यथा यस्मात् कलकत्ता-नगरात् हिन्दीभाषाया: प्रथमं समाचार-पत्रौ प्रकाशितम्, तस्मात् पूर्वमेव तत्र आङ्ग्ल-भाषायाः अन्यासां भाषाणां च समाचार-पत्राणि प्रकाशितानि आसन्। इतिहासः साक्षी अस्ति यत् राजनीतिक-व्यावसायिक-केन्द्रत्वात् भारतस्य प्रथमं समाचार-पत्रं हिक्कीज बंगाल गजट १७८० तमे वर्षे तस्मात् एव प्रकाशितम्। एतत् जेम्सऑगस्टसहिक्की इत्यस्य साप्ताहिक-पत्रम् आसीत्। “उदन्तमार्त्तण्ड:” तु तस्मात् षट्चत्वारिंशद्वर्षाणि अनन्तरं प्रकाशितम्। हिक्की-समाचारपत्रस्य सम्पूर्णं नाम “हिक्कीज बंगाल गजट ऑर द ओरिजिनल कलकत्ता जनरल एडवरटाइजर” इति आसीत्।
सामान्यतया कथ्यते यत् विविध-कठिनताभिः, यथा डाक-प्रेषण-निषेधेन, न्यायिक-विवादैः च एतत् पत्रं निरुद्धम्। किन्तु एतदपि ज्ञायते यत् जेम्स ऑगस्टस हिक्की इत्यनेन ईस्टइंडियाकम्पनी तथा गवर्नर-जनरल वॉरेनहेस्टिंग्स- इत्यनयोः विषये आरोपाः कृताः। पश्चात् ब्रिटिश-संसदि हेस्टिंग्स तथा मुख्य-न्यायाधीशः एलिजा इम्पी इत्येतयोः विरुद्धम् अपि महाभियोगः प्रचलितः। परिणामः तु तत्कालीन-भारतस्य परिस्थितेः अनुरूपमेव अभवत्।
एवमेव बाङ्ग्ला-भाषायाः “बंगाल गजट”, उर्दू-फारसी-भाषयोः “जामे-जहान्नुमा”, फारसी-भाषायाः “मिरात-उल-अखबार” इत्यादयः अपि कलकत्ता-नगरात् प्रकाशिताः। ततः अनन्तरं प्रकाशितः उदन्तमार्त्तण्ड: एव प्रथमं समाचार-पत्रम् आसीत्, यस्य ध्येयम् “हिन्दुस्तानियों के हित के हेत” इति स्पष्टतया उद्घोषितम्।
“हिन्दुस्तानियों के हित के हेत” इति वाक्यं केवलं भारतस्य न, अपितु समग्र-विश्वस्य सामान्य-जनहितस्य प्रतीकत्वेन ग्राह्यम्। अद्यत्वे कतिपयानि तथ्यानि दृश्यन्ते, येभ्यः ज्ञायते यत् माध्यम-जगत् स्वस्य मूल-ध्येयात् विचलितं भवति। यत्र जनहितस्य समर्थनं दृश्यते, तत्र विरोधः अपि भवति। अत एव अमेरिकादेशस्य राष्ट्रपति: डोनल्ड:ट्रम्प CNN, The New York Times तथा The Wall Street Journal इत्यादीभ्य: “फेक न्यूज्” प्रसारणस्य दोषं ददाति। तस्य कथनम् अस्ति यत् एते समाचार-पत्राः ईरानस्य पराजयम् अपि विजयत्वेन प्रदर्शयितुम् इच्छन्ति। सः डेमोक्रेटिक-पक्षस्य नेतॄन् अपि “भ्रान्ताः” “उन्मत्ताः” इति वदति। अस्माकं देशेऽपि माध्यमेषु अधोगतिः दृश्यते।
स्वतन्त्रता-आन्दोलनकालवत् कश्चन “मिशन”-भावः अधुना नास्ति इति कारणं कथयितुं शक्यते। तथापि जनहितमेव स्वयम् एकः महान् ध्येयः अस्ति। अस्य सिद्ध्यर्थं “सम्पादक:” इति संस्थायाः दृढता आवश्यकाऽस्ति। समाचार-पत्र-चालनार्थं धनस्य आवश्यकता निःसन्देहं भवति, किन्तु अद्यतनात् कतिपय-वर्षेभ्यः पूर्वं पाठकाः केवलं सम्पादकीय-पठनार्थं विशिष्ट-समाचार-पत्रं क्रयन्ति स्म। तदा अपि समाचार-पत्रेषु वित्तीय-साधनानि उपलब्धानि आसन्।
अद्य विचार-स्वातन्त्र्यस्य नाम्ना इलेक्ट्रॉनिक-माध्यमानि विविध-मीडिया-मञ्चाश्च प्रचलिताः सन्ति। तथापि मूल-प्रश्नः “हिन्दुस्तानियों के हित के हेत” इत्यस्य एव अस्ति। प्रत्येक-युगस्य पत्रकारिता अस्य कसौट्याः उपरि एव परीक्षिता भविष्यति। पत्रकारिता तदा एव सफलत्वं प्राप्स्यति, यदा सा विशिष्ट-जनानां स्थाने सामान्य-जनस्य चिन्तां करिष्यति। इतस्तत:-पक्षपातस्य आरोपात् श्रेष्ठतरम् एतदेव यत् पत्रकारितायाः उपरि “जनता-पक्षीयता” इति मुद्रा दृश्येत।
Hindusthan Samachar / Divya Ranjan