काङ्ग्रेस-नेतृणां मध्ये सत्तासंघर्षस्य कारणेन कर्नाटके विकासकार्याणि स्थगितानि : भाजपाया आरोपः
नवदेहली, २९ मे-मासः (हि.स.)।भारतीयजनतापक्षस्य (भाजपा) कर्नाटके सत्तारूढायाः काङ्ग्रेस-पक्ष-नेतॄणां मध्ये सत्तासंघर्षस्य कारणेन विकासकार्याणि स्थगितानि इति आरोपः कृतः। भाजपापक्षेण उक्तं यत् गतत्रिवर्षेषु शासनस्य विकासस्य च स्थाने मुख्यमन्त्री सिद्धा
भाजपा द्वारा साझा की गई तस्वीर


नवदेहली, २९ मे-मासः (हि.स.)।भारतीयजनतापक्षस्य (भाजपा) कर्नाटके सत्तारूढायाः काङ्ग्रेस-पक्ष-नेतॄणां मध्ये सत्तासंघर्षस्य कारणेन विकासकार्याणि स्थगितानि इति आरोपः कृतः। भाजपापक्षेण उक्तं यत् गतत्रिवर्षेषु शासनस्य विकासस्य च स्थाने मुख्यमन्त्री सिद्धारमैया उपमुख्यमन्त्री डीके शिवकुमारयोः मध्ये सत्तासंघर्षः एव सर्वकारस्य परिचायकः अभवत्।

भाजपायाः आईटी-सेल-प्रमुखः अमितमालवीयः शुक्रवासरे सामाजिक-माध्यमस्य पोस्ट्-माध्यमेन उक्तवान् यत् कर्नाटक-सर्वकारः समूहः, उत्तराधिकार-राजनीतिः, राजनैतिक-महत्त्वाकाङ्क्षाभिः च एव व्यस्तः आसीत्, येन जनसामान्यसम्बद्धाः विषयाः उपेक्षिताः अभवन्। अस्य आन्तरिकसंघर्षस्य कारणेन राज्ये आधारभूतसंरचनायाः व्यये ५,२२९ कोटिरूप्यकाणां न्यूनता जाता तथा वित्तीयस्थिति: निरन्तरं दुर्बला अभवत्।

मालवीयेन नियन्त्रक-महालेखा-परीक्षकस्य (कैग्) प्रतिवेदनस्य उद्धरणं दत्त्वा उक्तं यत् राज्यस्य राजकोषीयहानिः एकस्मिन् वर्षे ४६,६२३ कोटिरूप्यकेभ्यः वर्धित्वा ६५,५२२ कोटिरूप्यकाणि अभवत्, यदा च ऋणभारः प्रायः ६३,००० कोटिरूप्यकपर्यन्तं प्राप्तः। राजस्वहानिः अपि ९,२७१ कोटिरूप्यकेभ्यः अधिकः अभवत्।

तेन आरोपः कृतः यत् राज्ये विकासकार्याणि स्थगितानि सन्ति तथा ३,१४० अधिकाः आधारभूतपरियोजनाः अपूर्णाः सन्ति। अष्टसु विभागेषु ठेकेदाराणां ३०,००० कोटिरूप्यकेभ्यः अधिकस्य अवशिष्टराशेः प्रदानम् अपि न कृतम्। स्थानीयनिकायनिर्वाचनानां विलम्बस्य कारणेन कर्नाटकं प्रतिवर्षं प्रायः ६,००० कोटिरूप्यकाणां अनुदानात् वञ्चितं भवितुम् अर्हति।

तेन काङ्ग्रेस-सर्वकारः “प्रशासनिक-पक्षाघातस्य” शिकारः इति उक्त्वा कथितं यत् सर्वकारः आन्तरिककलहे एव इत्थं व्यस्तः अस्ति यत् सुशासनं जनकल्याणं च प्रभावितम् अभवत्। पक्षेण उक्तं यत् यदि एषा स्थितिः एवं एव भविष्यति तर्हि २०२८ तमस्य विधानसभानिर्वाचने जनतया अस्य उत्तरं निश्चितरूपेण दास्यते।

Hindusthan Samachar / Divya Ranjan