Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २९ मे-मासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः ग्रीष्मकाले प्रदेशे वर्धमानं तापमानम् अत्यधिक-उष्णतया जन्यमानाः कठिनताश्च दृष्ट्वा प्रदेशवासिनः स्वस्वास्थ्यं प्रति सावधानतां वोढुं तथा आवश्यक-रक्षणोपायान् अवलम्बितुं आह्वानं कृतवान्
मुख्यमन्त्री डॉ.यादवः शुक्रवासरे सामाजिक-माध्यमे ‘एक्स’ इत्यस्य माध्यमेन उक्तवान् यत् ग्रीष्मकाले प्रदेशे वर्धितं तापमानम् अत्यधिका उष्णता च दृष्ट्वा सर्वे प्रदेशवासिनः स्वस्वास्थ्यस्य विशेषं ध्यानं कुर्वन्तु। पर्याप्तं जलं पिबन्तु, बालकान् जलपूरितान् स्थापयन्तु तथा बहिः गच्छन्तः जलपूर्णां पात्रिकां अवश्यं सह नयन्तु। मुख्यमन्त्री डॉ.यादवः उक्तवान् यत् सेवाभावयुक्तैः नागरिकैः सार्वजनिक-स्थलेषु पेयजलस्य व्यवस्था मानवतायाः सत्यसेवा अस्ति। अस्माभिः सर्वैः अस्मिन् दिशि अग्रे आगन्तव्यम्।
Hindusthan Samachar / Divya Ranjan