प्रदेश-सर्वकारः विद्यार्थिभ्यः उच्च-शिक्षायै एक-प्रतिशत-व्याजदरेण ऋण-सुविधां प्रददाति : मुख्यमन्त्री
शिमलानगरम्, २९ मे-मासः (हि.स.)। पोस्ट-मैट्रिक-छात्रवृत्ति-योजनया लाभान्विताः अनुसूचित-जनजातीय-क्षेत्रस्य २१ विद्यार्थिनः अद्य अत्र मुख्यमन्त्रिणा ठाकुर-सुखविन्द्रसिंह-सुक्खू-महोदयेन सह समागत्य स्वान् शैक्षणिक-अनुभवान् सहभागं कृतवन्तः। मुख्यमन्त्री
छात्रों के दल से भेंट करते मुख्यमंत्री।


शिमलानगरम्, २९ मे-मासः (हि.स.)। पोस्ट-मैट्रिक-छात्रवृत्ति-योजनया लाभान्विताः अनुसूचित-जनजातीय-क्षेत्रस्य २१ विद्यार्थिनः अद्य अत्र मुख्यमन्त्रिणा ठाकुर-सुखविन्द्रसिंह-सुक्खू-महोदयेन सह समागत्य स्वान् शैक्षणिक-अनुभवान् सहभागं कृतवन्तः। मुख्यमन्त्री उक्तवान् यत् राज्य-सर्वकारः डॉ.वाई.एस.परमार-विद्यार्थी-ऋण-योजनायाः अन्तर्गतं विद्यार्थिभ्यः उच्च-शिक्षायै व्यावसायिक-पाठ्यक्रमेभ्यश्च २० लक्ष-रूप्यक-पर्यन्तं ऋणं एक-प्रतिशत-व्याजदरेण उपलब्धं कारयति।

मुख्यमन्त्री विद्यार्थिनः प्रति आह्वानं कृतवान् यत् ते अस्याः सुविधायाः पूर्णतया लाभं गृहीत्वा जीवने स्वलक्ष्यानि साधयेयुः। तेन उक्तं यत् प्रदेश-सर्वकारेण शिक्षा-क्षेत्रे विविध-सुधाराः कृताः, येन विद्यार्थिभ्यः स्वगृहस्य समीपे गुणवत्तायुक्ता शिक्षा उपलब्धा भवेत्।

सुक्खू-महोदयः उक्तवान् यत् राज्य-सर्वकारेण प्रदेशस्य १५६ अधिकेषु विद्यालयेषु सीबीएसई-पाठ्यक्रमः प्रारब्धः। एतेषु विद्यालयेषु विद्यार्थिभ्यः कला-विज्ञान-वाणिज्य-संकायेषु शिक्षा प्रदीयते। तेन उक्तं यत् राज्य-सर्वकारस्य व्यावहारिक-प्रयत्नानां परिणामस्वरूपं शिक्षा-क्षेत्रे व्यापकं परिवर्तनं दृष्टिगोचरम् अभवत् तथा हाल एव सम्पन्ने राष्ट्रिय-सर्वेक्षणे गुणवत्तायुक्त-शिक्षा-प्रदाने हिमाचलप्रदेशः त्रयोदश-स्थानात् उन्नत्य षष्ठ-स्थाने प्राप्तः।

तेन उक्तं यत् राज्य-सर्वकारेण कन्यानां विवाहयोग्या आयुः अपि बालकानां समाना १८ वर्षेभ्यः वर्धयित्वा २१ वर्षाणि कृतानि। तेन उक्तं यत् राज्ये अनुसूचित-जनजाति-समुदायस्य शिक्षायां योगदानस्य विषये जनान् अवगतं कारयितुं १० मे-मासात् ९ जून-मासपर्यन्तं २०२६ तमे वर्षे “अनुसूचित-जनजाति-गरिमा-उत्सवः” आयोज्यते।

/ अंशु गुप्ता