मध्यप्रदेशेन गोधूमोपार्जने नवीनं कीर्तिमानं स्थापितम्, कृषकेभ्यः अधुना यावत् १.४ कोटि-मीट्रिक-टन-परिमितं गोधूमं क्रीतम्
भोपालनगरम्, २९ मे-मासः (हि.स.)। मध्यप्रदेशे अस्मिन् वर्षे गोधूमोपार्जने सर्वे लक्ष्याः साधिताः तथा नवीनं कीर्तिमानम् अपि स्थापितम्। प्रदेशे कृषकेभ्यः अधुना यावत् अभिलेखीयं १.४ कोटि-मीट्रिक-टन-परिमितं गोधूमं क्रीतम्। राज्य-सर्वकारेण गोधूमोत्पादककृषक
गेहूं उपार्जन की जानकारी देते हुए मुख्यमंत्री डॉ. मोहन यादव


भोपालनगरम्, २९ मे-मासः (हि.स.)। मध्यप्रदेशे अस्मिन् वर्षे गोधूमोपार्जने सर्वे लक्ष्याः साधिताः तथा नवीनं कीर्तिमानम् अपि स्थापितम्। प्रदेशे कृषकेभ्यः अधुना यावत् अभिलेखीयं १.४ कोटि-मीट्रिक-टन-परिमितं गोधूमं क्रीतम्। राज्य-सर्वकारेण गोधूमोत्पादककृषकेभ्यः २५८५ रूप्यकाणां न्यूनतमसमर्थनमूल्यं प्रति कुन्तलं ४० रूप्यकाणां सहायता च प्रदत्ता। कृषकान् प्रति कुन्तलं २६२५ रूप्यकाणां दरस्य प्रदानं कृतम्। अधुना यावत् गोधूमोपार्जनस्य २४ सहस्रकोटिरूप्यकाणां राशिः कृषकेभ्यः प्रदत्ता।

मुख्यमन्त्री डॉ.मोहन यादवः शुक्रवासरे उज्जयिन्यां दृश्यसन्देशमाध्यमेन एतां सूचनां दत्तवान्। तेन उक्तं यत् गोधूमक्रयणार्थं कृषकाणां सङ्ख्यायाः दृष्ट्या मध्यप्रदेशः देशस्य अग्रणी-राज्यं जातम्। प्रदेशे अस्मिन् वर्षे गोधूमोत्पादनं वर्धितम्।

देशे सर्वाधिकगोधूमोत्पादकराज्येषु पञ्जाबानन्तरं मध्यप्रदेशः द्वितीयस्थाने वर्तते। मध्यप्रदेशः एव सर्वाधिक-दीर्घकालपर्यन्तं गोधूमक्रयणव्यवस्थां प्रवर्तयन् एकमेव राज्यं अस्ति।

मुख्यमन्त्री डॉ.यादवः उक्तवान् यत् लघु-मध्यमवर्गीयकृषकेभ्यः पूर्वं गोधूमक्रयणं कृतम्। एषा व्यवस्था प्रदेशे प्रथमवारं प्रवर्तिता। लघुकृषकेभ्यः अधुना यावत् प्रायः ३२.७२ लक्ष-मीट्रिक-टन-परिमितं गोधूमं क्रीतम्। ततः अनन्तरं बृहद्कृषकेभ्यः स्वीयोपजविक्रयणस्य अवसरः प्राप्तः। अधुना यावत् प्रायः पादोन १४ लक्ष-कृषकेभ्यः समर्थनमूल्येन गोधूमोपार्जनं सम्पन्नम्। सर्वकारक्रयणार्थं पञ्जीकृतानां सर्वेषां कृषकभ्रातृभगिनीनां गोधूमं गोदामपर्यन्तं प्राप्तम्।

मुख्यमन्त्री उक्तवान् यत् पश्चिम-एशियायां युद्धस्थितेः तथा विश्वे उत्पन्नानां विषमपरिस्थितिनां मध्येदपि प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे राज्यसर्वकारेण कृषकहितानि सर्वोपरि स्थापितानि। अस्मिन् कठिनकालेऽपि अभिलेखीयं गोधूमक्रयणं कृतम्। राज्यसर्वकारः कृषकाणां कृते अनेकान् जनहितैषी निर्णयान् करोति। अन्नदातृभ्रातृभगिनीनां कल्याणार्थं राज्यसर्वकारेण एतत् सम्पूर्णं वर्षं कृषककल्याणाय समर्पितम्। प्रदेशस्य प्रत्येकं कृषकः समृद्धः सुखी च भवेत्, पशुपालनात्, दुग्धोत्पादनात्, सस्योत्पादनात्, खाद्यप्रसंस्करणात् च कृषकाणाम् आयवृद्धिः भवेत्, एषा अस्माकं प्रतिबद्धता अस्ति।

Hindusthan Samachar / Divya Ranjan