नशामुक्त-जम्मू-कश्मीर-अभियानस्य अन्तर्गतं जीडीसी-बसोहल्यां जागरूकता-कार्यक्रमाणां श्रृङ्खला आयोजिता
बसोहलीनगरम्, २९ मे-मासः (हि.स.)। नशामुक्त-जम्मू-कश्मीर-अभियानस्य अन्तर्गतं गवर्नमेण्ट-डिग्री-महाविद्यालय-बसोहल्यां विविध-जागरूकता-जनहित-गतिविधीनां सफलम् आयोजनं कृतम्। एतासु गतिविधिषु जागरूकता-अभियानम्, संवादात्मक-सत्राणि, नशा-विरोधी-शपथ-ग्रहणम्, जन
Series of awareness programmes organised at GDC Basohli under Drug Free Jammu Kashmir Campaign


बसोहलीनगरम्, २९ मे-मासः (हि.स.)। नशामुक्त-जम्मू-कश्मीर-अभियानस्य अन्तर्गतं गवर्नमेण्ट-डिग्री-महाविद्यालय-बसोहल्यां विविध-जागरूकता-जनहित-गतिविधीनां सफलम् आयोजनं कृतम्। एतासु गतिविधिषु जागरूकता-अभियानम्, संवादात्मक-सत्राणि, नशा-विरोधी-शपथ-ग्रहणम्, जनसम्पर्क-कार्यक्रमाः तथा “हेल्थ-फॉर-योग” सत्राणि समाविष्टानि आसन्।

सर्वाः गतिविधयः महाविद्यालयस्य प्राचार्यस्य प्रो.राजकिरणस्य कुशल-मार्गदर्शने आयोजिताः। ‘मिशन-युवा’ इत्यस्य प्रतिभागिनां कृते आयोजिते जागरूकता-व्याख्याने एनएमबीए-समितेः सह-संयोजिका डॉ.नेहा-बंद्राल: नशायाः दुष्प्रभावान् विस्तरेण निरूप्य यूनः तस्मात् दूरं स्थातुं प्रेरितवती। ततः परं एनएमबीए-समितेः संयोजिका डॉ.रविंदर-कौर: स्थानीय-निवासिभिः सह संवादं कृत्वा मानसिक-शारीरिक-स्वास्थ्यस्य महत्त्वं प्रकाशिता। सहैव महाविद्यालय-परिसरे निर्माण-कार्ये संलग्नान् श्रमिकान् समितेः सदस्यैः नशा-विरोधी-शपथा अपि ग्राहिता।

अस्यैव क्रमस्य अन्तर्गतं समितेः सदस्यः डॉ.निखिल-भारती बसोहल्याः पलाही-क्षेत्रे जनसम्पर्क-कार्यक्रमम् आयोजितवान्, यत्र स्थानीय-जनान् जम्मू-कश्मीर-शासनेन नशामुक्त्यर्थं क्रियमाणानां उपायानां विषये अवगतवान्। कार्यक्रमस्य समापने प्रो.विशाल-शर्मणः निर्देशनस्य अन्तर्गतं योग-वेलनेस-सत्रस्य आयोजनं कृतम्, यस्मिन् विद्यार्थिभिः योग-ध्यानयोः अभ्यासः कृतः।

/ अंशु गुप्ता