Enter your Email Address to subscribe to our newsletters

मऊ-नगरम्, २९ मे-मासः (हि.स.)। मऊ-जनपदस्य ताजोपुर-ग्रामे “ग्रामीण-सैनिक-चिकित्सालयस्य” उद्घाटन-अवसरे उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथ: उक्तवान् यत् जन्मभूमेः ऋणं परिशोधयितुमेव सच्ची देशभक्तिः अस्ति। सः ब्रिगेडियर-डॉ.पी.एन.सिंहस्य कार्याणां प्रशंसां कृत्वा उक्तवान् यत् भारतीय-सेनायां पञ्चत्रिंशद्वर्षपर्यन्तं सेवां कृत्वा स्व-मातृभूमौ प्रत्यागत्य ग्राम-विकासार्थं कार्यं करणं राष्ट्र-निर्माणस्य अद्भुतम् उदाहरणम् अस्ति। मुख्यमन्त्री उक्तवान् यत् “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति केवलं शास्त्र-वाक्यं न, अपितु भारतीय-संस्कृतेः आत्मा अस्ति, ताजोपुर-ग्रामः तस्य जीवंत-प्रमाणं जातः।
मुख्यमन्त्री भगवत: श्रीरामस्य जीवन-प्रसङ्गस्य उल्लेखं कृत्वा उक्तवान् यत् स्वर्णमयी लङ्कापि भगवत: रामस्य कृते स्वजन्मभूमेः अयोध्या अपेक्षया अधिका प्रिया नासीत्। एतामेव भावनां आत्मसात् कृत्वा ब्रिगेडियर-डॉ.पी.एन.सिंह: विदेशेषु बृहद्-संस्थासु च कार्यं कृत्वा स्वग्रामं प्रत्यागत्य चिकित्सालयस्य, नर्सिङ्ग-महाविद्यालयस्य, फार्मेसी-महाविद्यालयस्य, आईटीआई-संस्थायाः तथा सैनिक-पब्लिक-विद्यालयस्य स्थापनां कृतवान्। मुख्यमन्त्री उक्तवान् यत् एतत् केवलं भवन-निर्माणं न, अपितु ग्रामीण-भारतस्य आत्मनिर्भरता-साधनस्य महदभियानम् अस्ति।
मुख्यमन्त्री उक्तवान् यत् ग्रामीण-सैनिक-चिकित्सालयः ग्रामस्य समीपवर्ती-क्षेत्राणां च स्वास्थ्य-व्यवस्थां सुदृढां कर्तुं महत्त्वपूर्णं केन्द्रं भविष्यति। सैनिक-नर्सिङ्ग-महाविद्यालये एएनएम, जीएनएम, बीएससी-नर्सिङ्ग इत्यादीनां अध्ययनं क्रियते, तथा च फार्मेसी-महाविद्यालयः आईटीआई-संस्था च यूनः रोजगारोन्मुख-शिक्षया संयोजयतः। सैनिक-पब्लिक-विद्यालयः क्षेत्रस्य बालकेभ्यः गुणात्मक-शिक्षां प्रददाति। मुख्यमन्त्री उक्तवान् यत् एतैः संस्थाभिः मऊ-जनपदस्य नूतना परिचय-प्रतिष्ठा निर्मिता तथा च बहुसंख्यकेभ्यः स्थानीय-युवभ्यः स्वक्षेत्रे एव रोजगार-अवसराः प्रदत्ताः।
स्वीय-सम्बोधने मुख्यमन्त्री नरेन्द्रमोदी इत्यस्य “पञ्च-प्रण” इत्यस्य अपि उल्लेखं कृतवान्। सः उक्तवान् यत् विकसित-भारत-निर्माणार्थं प्रत्येकेन नागरिकेन स्व-विरासतायां गौरवं कर्तव्यम्, दास्य-मानसिकतायाः बहिर्गन्तव्यम्, “एक-भारत-श्रेष्ठ-भारत” इति भावनां सुदृढां कर्तव्यम्, सैनिकानां सुरक्षा-बलानां च सम्मानः करणीयः तथा स्व-नागरिक-कर्तव्यस्य सत्यतापूर्वकं पालनम् अपेक्षितम्। सः उक्तवान् यत् देशस्य सैनिकः कठिन-परिस्थितिषु सीमायाः रक्षणं करोति, तदा एव देशवासिनः सुरक्षितं जीवनं यापयन्ति।
मुख्यमन्त्री योगी-आदित्यनाथ: उक्तवान् यत् विकसित-भारतस्य स्वप्नं तदैव साकारं भविष्यति, यदा ग्रामाः आत्मनिर्भराः भविष्यन्ति। सः ताजोपुर-प्रतिमानं ग्रामीण-विकासस्य, स्वावलम्बनस्य राष्ट्र-निर्माणस्य च आदर्शरूपेण निरूप्य उक्तवान् यत् प्रदेश-सर्वकारः एतादृशेषु सर्वेषु प्रयासेषु दृढतया सह तिष्ठति। अस्मिन् अवसरे मन्त्री ए.के.शर्मा, दारासिंहचौहान:, दयाशंकरसिंह:, भाजपा-जनपदाध्यक्षः रामाश्रयमौर्य: तथा चिकित्सालयस्य संस्थापकः ब्रिगेडियर-डॉ.पी.एन.सिंहेन सह अनेके गणमान्य-जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan