भाजपापक्षेण २०२७ तमे वर्षे उत्तराखण्ड-विजयाय रणनीतिः निर्मिता, ‘माइक्रो-मैनेजमेंट-मॉडल’ इत्यस्य आधारेण कार्यं करिष्यति
देहरादूननगरम्, २९ मे-मासः (हि.स.)। भारतीयजनतापक्षेण (भाजपा) उत्तराखण्डे अग्रिमविधानसभानिर्वाचनस्य सिद्धतां प्रति संघटनात्मक-राजनैतिकस्तरे व्यापक-रणनीतिनिर्माणं प्रारब्धम्। अस्य क्रमस्य अन्तर्गतं भाजपापक्षस्य राष्ट्रीयाध्यक्षः नितिननवीनः शुक्रवासरे
देहरादून के  राजपुर रोड स्थित भाजपा की बैठक।


देहरादूननगरम्, २९ मे-मासः (हि.स.)। भारतीयजनतापक्षेण (भाजपा) उत्तराखण्डे अग्रिमविधानसभानिर्वाचनस्य सिद्धतां प्रति संघटनात्मक-राजनैतिकस्तरे व्यापक-रणनीतिनिर्माणं प्रारब्धम्। अस्य क्रमस्य अन्तर्गतं भाजपापक्षस्य राष्ट्रीयाध्यक्षः नितिननवीनः शुक्रवासरे स्वस्य त्रिदिवसीय-उत्तराखण्ड-प्रवासस्य द्वितीयदिने सांसदैः विधायकैः च सह दीर्घसभां कृत्वा निर्वाचनसिद्धता, बूथ-प्रबन्धनम्, सर्वकारस्य उपलब्धीनां जन-जनपर्यन्तं प्रसारणस्य रणनीतेः च विषये मन्थनम् अकरोत्।शुक्रवासरे नगरस्य राजपुर-रोड्-स्थिते एकस्मिन् विश्रामगृहे भाजपा-प्रदेशाध्यक्षः महेन्द्रभट्टः सांसद-विधायक-सभायाः अनन्तरं पत्रकारेभ्यः उक्तवान् यत् सभायां राष्ट्रीयाध्यक्षेन तथा राष्ट्रीयसंघटनमहामन्त्रिणा बीएलसन्तोषेन निर्वाचनसिद्धतायाः रणनीतेः च विषये विस्तरेण चर्चा कृता। तेन उक्तं यत् भाजपापक्षेण अग्रिमनिर्वाचने बूथस्तरपर्यन्तं संघटनं सुदृढीकृत्य ‘माइक्रो-मैनेजमेंट-मॉडल’ इत्यस्य आधारेण कार्यं करिष्यते।राष्ट्रीयाध्यक्षेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारस्य द्वादशवर्षीय-विकासकार्याणि, जनकल्याणकारी-योजनाः तथा राज्यसर्वकारस्य उपलब्धयः ग्राम-ग्रामपर्यन्तं प्रेषणं दलस्य प्रत्येकं जनप्रतिनिधेः कार्यकर्तुः च प्राथमिकदायित्वम् अस्ति। एतदर्थं सांसद-विधायकेभ्यः निर्देशाः दत्ताः यत् ते केन्द्र-राज्यसर्वकारयोः योजनाः स्वकार्यकालस्य उपलब्धयः च समावेश्य विस्तृत-प्रचारसामग्रीं सज्जीकुर्युः। एषा सामग्री ग्रामस्तरपर्यन्तं सम्प्रेष्य प्रत्यक्षरूपेण मतदातृभिः सह सम्पर्कः स्थापितः भविष्यति। विज्ञापनं, पत्रिका, जनसम्पर्क-अभियानस्य माध्यमेन भाजपापक्षेण ग्रामीणक्षेत्रेषु स्वपक्षस्य परिचयः अधिकं सुदृढीकरणस्य सिद्धता क्रियते। सभायां संघटन-सर्वकारयोः मध्ये उत्तम-समन्वयस्य रक्षणे विशेषबलं दत्तम्।राष्ट्रीयाध्यक्षेन उक्तं यत् निर्वाचनसफलतायाः आधारः सुदृढः बूथ-संघटनम् अस्ति। येषु बूथ-इत्येतेषु अद्यापि टोली अथवा बूथ-समितीनां गठनं न जातम्, तेषु स्थलेषु विधायकाः मण्डल-संघटनानि च संयुक्तरूपेण अभियानं चालयित्वा संघटनात्मकसंरचनां पूर्णां करिष्यन्ति।भाजपा-नेतृत्वेन तेषु २३ विधानसभासनेषु विशेषरणनीतिनिर्माणस्य निर्णयः कृतः, येषु दलं गतनिर्वाचने पराजितम् आसीत्। एतेषाम् आसनानां दायित्वं लोकसभा-राज्यसभा-सांसदेभ्यः प्रदास्यते। तथा च द्विसहस्रात् न्यूनमतान्तरेण विजितेषु आसनेषु अपि विशेषनिरीक्षणं स्थापयितुं तत्र निरन्तरं संघटनात्मकसक्रियतां धारयितुं च निर्देशाः दत्ताः।सभायां प्रत्येकं ग्रामसभायां न्यूनातिन्यूनं शतं बुद्धिजीविनां सूची निर्माणस्य लक्ष्यं अपि निर्धारितम्। दलस्य मतम् अस्ति यत् सामाजिकरूपेण प्रभावशालिवर्गाणां माध्यमेन सर्वकारस्य योजनाः संघटनस्य विचारधारा च अधिकप्रभावीरीत्या जनतायाः समीपं प्रेषयितुं शक्यन्ते।

भाजपा-प्रदेशाध्यक्षः महेन्द्रभट्टः उक्तवान् यत् दलस्य सम्पूर्णं ध्यानं बूथ-प्रबन्धनम्, संगठन-विस्तारः, जनसम्पर्क-अभियानस्य सुदृढीकरणं च प्रति केन्द्रितम् अस्ति। तेन उक्तं यत् अग्रिमविधानसभा-निर्वाचने निरन्तरं तृतीयवारं विजयस्य सुनिश्चित्यर्थं संघटनम् अद्य एव पूर्णशक्त्या क्षेत्रे अवतीर्णम् अस्ति।

राजनैतिकदृष्ट्या भाजपायाः एतत् मन्थनं केवलं संघटनात्मकसभां न, अपितु अग्रिमविधानसभानिर्वाचनानां रणनैतिक-खाका इति मन्यते। दलनेतृत्वं बूथस्तरीयसुदृढीकरणम्, दुर्बल-आसनेषु विशेषकेन्द्रणम्, सर्वकारस्य उपलब्धीनां प्रचारं च माध्यमीकृत्य निर्वाचनलाभं स्थिरं कर्तुं सक्रियतया प्रयतमानं दृश्यते।

Hindusthan Samachar / Divya Ranjan