मुख्यमंत्रिणश्शुभेंदोःमहती घोषणा- एक अगस्ततो राज्ये शुभारप्स्यते जनगणना
कोलकाता, 29 मईमासः (हि.स.)। पश्चिम-बङ्गाले आगामिनः एक-अगस्त-दिनाङ्कात् जनगणना-कार्यस्य आरम्भः भविष्यति। मुख्यमन्त्री शुभेन्दु-अधिकारी शुक्रवासरे राज्य-सचिवालये नवान्न-स्थले आयोजितायां पत्रकार-वार्तायां एतस्य घोषणां कृतवान्। तेन सूचितं यत् जनगणना-प्
शुभेंदु अधिकारी


कोलकाता, 29 मईमासः (हि.स.)। पश्चिम-बङ्गाले आगामिनः एक-अगस्त-दिनाङ्कात् जनगणना-कार्यस्य आरम्भः भविष्यति। मुख्यमन्त्री शुभेन्दु-अधिकारी शुक्रवासरे राज्य-सचिवालये नवान्न-स्थले आयोजितायां पत्रकार-वार्तायां एतस्य घोषणां कृतवान्। तेन सूचितं यत् जनगणना-प्रक्रिया अगस्त् २०२६ तः आरभ्य फरवरी २०२७ पर्यन्तं प्रचलिष्यति।

मुख्यमन्त्री राज्यस्य सर्वेभ्यः नागरिकेभ्यः जनगणना-कार्ये सक्रिय-सहयोगं कर्तुं प्रार्थयन् उक्तवान् यत् एषा प्रक्रिया राष्ट्रस्य राज्यस्य च कृते अत्यन्तं महत्त्वपूर्णा अस्ति। तेन उक्तं यत् पश्चिम-बङ्गालस्य जनसांख्यिकीय-स्थितिः विशेष-महत्त्वं धारयति, यतः राज्यस्य प्रायः षट्शत-किलोमीटर-दीर्घा सीमा बाङ्ग्लादेशेन सह सम्बद्धा अस्ति।

तेन दावा कृतः यत् सीमायाः केषुचित् भागेषु अद्यापि बाड़-निर्माणस्य अभावः तथा पूर्ववर्ती-शासनेन सीमा-सुरक्षा-बलाय भूमेः अनुपलब्धता इत्येतयोः कारणयोः राज्यस्य जनसांख्यिकीय-स्थितौ परिवर्तनम् अभवत्।

मुख्यमन्त्रिणा सूचितं यत् प्रथमवारं डिजिटल-माध्यमेन जनगणना आयोजिता भविष्यति। तेन उक्तं यत् देशस्य अनेक-राज्येषु एषा प्रक्रिया पूर्वमेव आरब्धा अस्ति, किन्तु पश्चिम-बङ्गाले एतत् कार्यं तुलनात्मक-रीत्या विलम्बेन आरभ्यते। तथापि राज्य-शासनं निर्धारित-समय-सीमायाः अन्तर्गतं जनगणना-कार्यं सम्पन्नं कर्तुं प्रतिबद्धम् अस्ति।

तेन जनान् प्रति प्रार्थना कृता यत् सर्वे नागरिकाः सत्यां सटीकां च सूचनां प्रदाय प्रशासनस्य सहयोगं कुर्वन्तु, येन जनगणना-प्रक्रिया सफलतया सम्पन्ना भवेत्।

अस्मिन् समये मुख्यमन्त्री जनगणना-प्रक्रियायाः विलम्बस्य कृते पूर्ववर्ती-शासनं तथा पूर्व-मुख्य-सचिवं उत्तरदायिनौ निरूपितवान्। तेन उक्तं यत् एतत् न किञ्चित् मन्त्रिमण्डल-विषयः आसीत्, अपितु प्रशासनिक-स्तरे निर्णेयः विषयः आसीत्। मुख्यमन्त्रिणः अनुसारं पूर्व-मुख्य-सचिवः राजनीतिक-सहमतेः प्रतीक्षां कुर्वन् आसीत्, यस्य कारणात् जनगणना-कार्यं समये आरब्धुं न शक्यताम्।----------------

Hindusthan Samachar / Dheeraj Maithani