Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २९ मे-मासः (हि.स.)। वनवासीकल्याणाश्रमस्य कोलकाता-हावड़ा-महानगर-विभागयोः तत्त्वावधाने पुरुषोत्तममासस्य अवसरे साल्टलेक-नगरे श्रीरामकथायाः आयोजनं क्रियते। युवभारती-क्रीडाङ्गणस्य ‘द स्टेडल् बैंक्वेट’ इति स्थले आयोज्यमाना रामकथा अग्रिम-रविवासरात् अर्थात् ३१ मे-मासतः प्रारभ्स्यते। सप्तम-जूनमास-पर्यन्तं चलिष्यति अस्मिन् आयोजने आचार्यः मृदुलकान्तः शास्त्री (वृन्दावनम्) श्रीरामकथायाः वाचनं करिष्यति।
आयोजनस्य अध्यक्षतां प्रबुद्ध-उद्योगपतिः विश्वनाथसेकसरिया वहिष्यति, यदा च प्रसिद्ध-उद्योगपतिः प्रहलादराय-अग्रवालः आयोजनसमितेः संरक्षकस्य भूमिकायां भविष्यति।
उल्लेखनीयम् अस्ति यत् अखिलभारतीय-वनवासीकल्याणाश्रमेण सम्बद्धः पूर्वाञ्चल-कल्याणाश्रमः गतत्रिसप्तति-वर्षेभ्यः जनजाति-समाजस्य उत्थानाय निरन्तरं कार्यरतः अस्ति। तस्य मुख्योद्देश्यं जनजाति-समाजस्य शिक्षया, चिकित्सया, स्वावलम्बनेन, श्रद्धाजागरणेन च सर्वाङ्गीणविकासं कृत्वा तान् राष्ट्रस्य विकासधारया सह संयोजयितुम् अस्ति।
Hindusthan Samachar / Divya Ranjan