Enter your Email Address to subscribe to our newsletters

पश्चिम-बङ्गाल-राज्यस्य विधानसभानिर्वाचन-परिणामेभ्यः पूर्वं डाबग्राम-फुलबाड़ी-आसनात् भारतीय-जनता-पक्षस्य (भाजपा) प्रत्याशिनी शिखा-चटर्जी रविवासरे विशेष-यज्ञस्य आयोजनं कृतवती। एतत् धार्मिक-अनुष्ठानं नगरस्य ४०-नम्बर-वार्ड-मध्ये ज्योति-नगर-क्षेत्रे सम्पन्नः, यस्मिन् पक्षस्य अनेकाः कार्यकर्तारः समर्थकाः च सहभागिनः अभवन्।
यज्ञ-अनन्तरं शिखा-चटर्जी उक्तवती यत् अग्रिमे दिने निर्वाचन-परिणामाः प्रकाशिताः भविष्यन्ति, अस्मिन् काले परिवर्तनस्य आशया एषः यज्ञः प्रार्थना च कृतः। तया उक्तं यत् राज्ये बहवः भाजपा-प्रत्याशिनः अपि परिणामात् पूर्वं पूजापाठ-धार्मिक-अनुष्ठानानि कुर्वन्ति।
तस्याः अनुसारं जनसमर्थनं तेषां पक्षे अस्ति तथा सकारात्मक-परिणामानां अपेक्षा क्रियते। मतगणनायाः पूर्वं एतादृशैः धार्मिक-आयोजनैः राजनैतिक-वातावरणं अधिकं सघनं दृश्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता