बीजेपीप्रत्याशी शंकर घोषो मंदिरे अकरोत् पूजां, ‘नवबंगालस्य’ कामना
बीजेपी उम्मीदवार शंकर घोष ने मंदिर में की पूजा, ‘नए बंगाल’ की कामना
काली मंदिर में पूजा करते बीजेपी उम्मीदवार शंकर घोष


सिलीगुड़ी, 03 मईमासः (हि.स.)।पश्चिम बंगाल-विधानसभानिर्वाचनस्य परिणामेभ्यः एकदिनपूर्वं भारतीय जनता पार्टी (बीजेपी) इत्यस्य अभ्यर्थी शंकर घोष श्रद्धां आश्रित्य रविवासरे प्रातःकाले रथखोला-मोड-स्थिते कालीबाड़ी-मन्दिरे पूजाम् अकरोत्।

मन्दिरे विधिपूर्वकं पूजां कृत्वा शंकर घोषः काली-देव्याः आशीर्वादं प्राप्तवान् तथा राज्यवासिनां कल्याणाय प्रार्थनां कृतवान्। अस्मिन् काले तेन सह दलस्य अनेकाः कार्यकर्तारः समर्थकाः च उपस्थिताः आसन्।

पत्रकारैः सह संवादे सः अवदत् यत् अद्य सम्पूर्णे राज्ये भारतीय जनता पार्टी-अभ्यर्थिनः मन्दिरेषु गत्वा पूजां कुर्वन्ति। वयं देव्या: समीपे प्रार्थयामः यत् श्वः मतगणनया सह पश्चिम बंगाल-राज्ये नूतनयुगस्य आरम्भः भवेत्।

सः अग्रे अपि अवदत् यत् लोकतन्त्रे जनतायाः निर्णयः एव सर्वोपरि भवति, सः च आशां करोति यत् जनादेशः राज्यं विकासमार्गे अग्रे नयेत्। मतगणनात् पूर्वं भाजपा-नेतॄणाम् एतादृशं मन्दिरगमनं पूजाकरणं च राजनीतिकदृष्ट्या अपि महत्त्वपूर्णम् इति मन्यते।

हिन्दुस्थान समाचार