श्रद्धा-उल्लासाभ्यां सह स्वर्णरेखा-घट्टे माँ-बाघेश्वरी-प्रतिमायाः विसर्जनं कृतम्, सिन्दूर-खेलने च महिलाः उल्लसिताः अभवन्
जमशेदपुरनगरम्, ०३ मईमासः (हि.स.)। नगर्यां सुवर्ण-बणिक-समाजेन, प्रदेश-जनपद-तथा विविध-शाखा-समितीनां संयुक्त-तत्त्वावधाने आयोजिताया मां-बाघेश्वरी-देव्याः त्रिदिवसीय-वार्षिक-पूजायाः समापनं रविवासरे विधि-विधानपूर्वकं सम्पन्नम्। बाराद्वारी-स्थिते समाज-भव
स्वर्णरेखा घाट में मां बाघेश्वरी की प्रतिमा विसर्जित


स्वर्णरेखा घाट में मां बाघेश्वरी की प्रतिमा विसर्जित


जमशेदपुरनगरम्, ०३ मईमासः (हि.स.)। नगर्यां सुवर्ण-बणिक-समाजेन, प्रदेश-जनपद-तथा विविध-शाखा-समितीनां संयुक्त-तत्त्वावधाने आयोजिताया मां-बाघेश्वरी-देव्याः त्रिदिवसीय-वार्षिक-पूजायाः समापनं रविवासरे विधि-विधानपूर्वकं सम्पन्नम्। बाराद्वारी-स्थिते समाज-भवने आयोजिते अस्मिन् धार्मिक-अनुष्ठाने अन्तिम-दिने भावनात्मकः उत्साहपूर्णश्च वातावरणः आसीत्, यदा श्रद्धालुभिः देव्याः प्रतिमायाः विसर्जनं कृतम्।

विसर्जनात् पूर्वं समाजस्य महिलाभिः पारम्परिक-रीत्या देव्याः चरणयोः श्रद्धां निवेद्य परिवारस्य सुख-शान्ति-समृद्ध्यै च कामना कृता। ततः अनन्तरं महिलाः परस्परं सिन्दूरं दत्त्वा ‘सिन्दूर-खेला’ इति परम्परां निर्वहितवत्यः, येन समग्रे परिसरः उत्साह-उल्लासाभ्यां परिपूर्णः अभवत्।

तदनन्तरं समाजजनाः जुलूस-रूपेण स्वर्णरेखा-नदी-घट्टं प्राप्तवन्तः। मृदंगानां जयघोषैः सह ‘आसछे बोछोर आबार होबे’ इत्यस्य उद्घोषेण मां-बाघेश्वरी-देव्याः प्रतिमायाः विसर्जनं कृतम्। अस्मिन् समये श्रद्धालूनां महान् सम्मर्द: उपस्थिताऽभवत् तथा समग्रं वातावरणं भक्तिमयं जातम्।

कार्यक्रमे केन्द्रीय-अध्यक्षस्य विश्वनाथ-चन्द्रस्य नेतृत्वे समाजस्य अनेके प्रमुख-सदस्याः सहभागीभूताः, येषु निताई-दत्तः, संजय-पोद्दारः, धनञ्जय-चन्द्रः, समीर-दत्तः, विजय-चन्द्रः, शंकर-चन्द्रः, संजय-दत्तः, सनोज-चन्द्रः, शिशिर-दत्तः, दुर्गा-दत्तः, राजेश-दत्तः, गणेश-कोवालः, बिमल-चन्द्रः इत्यादयः अन्ये गणमान्याः समुपस्थिताः आसन्। आयोजनस्य सफलतायां सर्वेषां सदस्यानां महत्वपूर्णं योगदानम् आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता