Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 03 मईमासः (हि.स.)। हिमंत बिस्व सरमा मुख्यमन्त्री जापान-यात्रां समाप्य अद्य गुवाहाटी नगरं प्रत्यागतः। सोमवासरे असम-विधानसभा-निर्वाचन-परिणाम-दिनात् एकदिनपूर्वं सः जापानदेशात् गुवाहाटीं प्रत्यागच्छत्।मुख्यमन्त्री डॉ. सरमा गत-रात्रौ दिल्ली नगरे स्थित्वा अद्य प्रातःकाले गुवाहाटीं प्रत्यागतः। तेन सह दिल्लीतः पवित्र मार्घेरिटा (केंद्रीय-विदेश-राज्यमंत्री), असम-सरकारस्य मन्त्री जयंतमल्ल बरुवा, तथा कार्बी-आंगलोंग-स्वायत्तशासी-परिषदः मुख्य-कार्यपालक-अधिकारी तुलिराम रंगहांग अपि आगतवन्तः।
ज्ञातव्यं यत् पश्चिम बंगाल विधानसभा-निर्वाचनस्य प्रचार-अभियानं सम्पन्न्य मुख्यमन्त्री जापानदेशं गतः आसीत्। तत्र सः भारतीय जनता पार्टी पक्षस्य प्रमुख-प्रचारकत्वेन बहु प्रचारं कृतवान्।
पार्टी-सूत्राणां अनुसारं गुवाहाटीं प्राप्त्य एव सः अद्य सायंकाले विडियो-सम्मेलन-माध्यमेन पार्टी-प्रत्याशिभिः सह समीक्षा-सभायां सहभागी भविष्यति।
हिन्दुस्थान समाचार