Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 03 मईमासः (हि.स.)।दिल्लीनगरस्य विवेकविहार-प्रदेशे रविवासरे प्रातःकाले एकस्मिन् चतुर्मञ्जिले निवासगृहे भीषणाग्निकाण्डः जातः, यस्मिन् नव जनाः मृत्युम् उपगताः। अस्मिन् दुःखदायिनि घटनायां रक्षामन्त्री राजनाथसिंहः तथा कॉर्पोरेटकार्यराज्यमन्त्री हर्ष मल्होत्रा गाढं शोकं व्यक्तवन्तौ।
रक्षामन्त्री राजनाथ सिंह ‘एक्स्’ इति सामाजिकमाध्यमे स्वसंवेदनां प्रकट्य उक्तवान् यत् “दिल्ल्याः विवेकविहारे जातस्य भीषणाग्निकाण्डस्य कारणेन जातायाः जनधनहान्याः विषये अहं अत्यन्तं व्यथितः अस्मि। अस्मिन् दुःखसमये मम संवेदनाः पीडितपरिवारैः सह सन्ति। सह एव, अहं अस्मिन् दुर्घटनायां घातितानां जनानां शीघ्रस्वास्थ्यलाभं कामये।”
तथैव केन्द्रीयमन्त्री हर्ष मल्होत्रा अवदत् यत् दुर्घटनायां अल्परूपेण आहतानां जनानां चिकित्सोपचारः प्रवर्तते। तेन आशा व्यक्ता यत् सर्वे आहताः अद्य सायंकालपर्यन्तं चिकित्सालयात् मुक्तिं प्राप्नुयुः।
---------------
हिन्दुस्थान समाचार