Enter your Email Address to subscribe to our newsletters

- परीक्षाकेन्द्रेषु प्राप्तुं जिला प्रशासनेन उपलब्धानि कारयिष्यन्ते लोकयानानि
इंदौरम्, 03 मईमासः (हि.स.)।मध्यप्रदेशस्य इन्दौरनगरे अद्य रविवासरे ३ मई दिनाङ्के आयोजितायाः नीट (यूजी) २०२६ परीक्षायाः सफल-सुचारु-आयोजनाय सर्वाः सज्जाः पूर्णताम् अगच्छन्। नीट-परीक्षायाः कृते इन्दौर-जनपदे कुल ५७ परीक्षा-केन्द्राणि निर्मितानि सन्ति, येषु २३,१६० परीक्षार्थिनः भागं ग्रहीष्यन्ति।
जिला-प्रशासनेन परीक्षा-केन्द्राणि प्राप्तुं ए.आई.सी.टी.एस.एल. संस्थायाः बस-यानानि उपलब्धानि कारितानि। एतानि यानानि प्रातः ९ वादने बस-स्थानकेषु रेल-स्थानकेषु च उपस्थास्यन्ति। यानानां कृते चत्वारः मार्गाः निर्दिष्टाः सन्ति, यानि सांवेर, आई.आई.टी. सिमरोल, आई.आई.एम. तथा महू-क्षेत्राणि प्रति गमिष्यन्ति। सायङ्काले ५ वादनस्य अनन्तरं परीक्षोपरान्तं यानानि पुनः आगमिष्यन्ति। सर्वेषु परीक्षा-केन्द्रेषु पर्याप्तसंख्यायां आरक्षकबलं नियोजितं भविष्यति। यातायातस्य सुगमतायै अपि विशेषव्यवस्था कृता अस्ति।
सर्वेषु परीक्षा-केन्द्रेषु चिकित्सा-कर्मचारिणः तथा पञ्च-केन्द्राणां मध्ये एकस्य रुग्णवाहनस्य व्यवस्था कृता अस्ति। दिव्यांग-परीक्षार्थिणां कृते चक्रासनस्य आदि-सुविधाः भविष्यन्ति। परीक्षा-केन्द्रेषु विद्युत्-जनित्रकाणाम् पर्याप्ता व्यवस्था अस्ति। परीक्षार्थिणाम् अभिभावकानां कृते केन्द्राणां बहिः 'टेंट' तथा जलपानस्य व्यवस्था कृता अस्ति।
परीक्षार्थिनः प्रार्थिताः सन्ति यत् ते कस्यापि भ्रामक-सूचनायाः अथवा मिथ्याप्रवादस्य ध्यानं न दद्युः। जिला-प्रशासनेन परीक्षा-केन्द्रेषु 'ड्यूटी मजिस्ट्रेट' नियुक्ताः सन्ति। भ्रमणशील-दलैः अपि प्रत्येकस्य केन्द्रस्य निरीक्षणं कृत्वा निरन्तरं दृष्टिः स्थापयिष्यते।
---------------
हिन्दुस्थान समाचार