Enter your Email Address to subscribe to our newsletters

भोपालम्, 03 मईमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य रविवासरे इन्दौरनगरे इन्दौर-पीथमपुर-इकोनॉमिक-कोरिडोर-परियोजनायाः प्रथमचरणस्य भूमिपूजनं करिष्यति। प्रदेशं सुदृढ-औद्योगिक-आधारं तथा आदर्श-निवेश-गन्तव्यत्वेन स्थापयितुं एषः कोरिडोर इति महत्वपूर्णः सिद्धः भविष्यति। कार्यक्रमे लघुपटेन कोरिडोरस्य स्वरूपं, सम्भावनाः, क्षेत्रीयप्रभावाः च प्रदर्शिष्यन्ते।
जनसम्पर्क-अधिकारिणी बबीतामिश्रा सूचनां ददती उक्तवती यत् एषः कोरिडोरः इन्दौर-विमानपत्तनस्य समीपे स्थितं 'सुपर कोरिडोर' इत्येतत् पीथमपुर-निवेश-क्षेत्रेण सह योजयित्वा एकस्याः सुव्यवस्थित-औद्योगिक-धुरीरूपेण विकसितः क्रियते। अनेन माध्यमेन न केवलं औद्योगिक-इकाईभ्यः उत्तमा सम्पर्क-सुविधा प्राप्स्यति, अपितु रसद, परिवहनं, आपणं प्रति प्रवेशः अपि अधिकप्रभावी भविष्यति। एषा परियोजना इन्दौर-क्षेत्रे विकसितान् औद्योगिक-समूहान् एकीकृत्य निवेशाय एकं सङ्गठितं सक्षमं च वातावरणं सज्जीकरिष्यति।
जनसम्पर्क-अधिकारिण्याः अनुसारं, इन्दौर-पीथमपुर-इकोनॉमिक-कोरिडोर-माध्यमेन पीथमपुर-निवेश-क्षेत्रं, लॉजिस्टिक-हब, वस्त्रोद्योग तथा निर्माण-इकाईभ्यः एकीकृत-सम्पर्कः प्राप्तः भविष्यति। अनेन उत्पादन-वितरण-तन्त्रं अधिकप्रभावि भविष्यति तथा उद्योगाणां सञ्चालन-प्रक्रिया सरला भविष्यति। एषा परियोजना प्रदेशे निवेश-प्रवाहं सुदृढं कर्तुं तथा रोजगारस्य अवसरान् वर्धयितुम् अपि सहायिका भविष्यति।
परियोजनायाः मुख्याः विशेषताः -
- अस्याः परियोजनायाः अन्तर्गतं सुपर-कोरिडोरतः पीथमपुर-निवेश-क्षेत्रं यावत् प्रायः 20.28 किलोमीटर दीर्घः मार्गः विकसितः क्रियते।
- प्रायः 1316 हेक्टेयर क्षेत्रे नियोजित-विकासस्य प्रावधानं कृतम् अस्ति, यस्मै आहत्य 2360 कोटि-रूप्यकाणां व्ययः निर्धारितः अस्ति।
- अधोसंरचना-अन्तर्गतं 75 मीटरमितं विशाला मुख्यवीथी तथा तस्याः उभयतः विकसितः 'बफर-जोन' एतं कोरिडोरं भविष्यस्य आवश्यकतानुसारं विस्तारयोग्यं करिष्यति।
- एषः कोरिडोरः राष्ट्रियमार्गः-47 तथा राष्ट्रियमार्गः-52 इत्यनयोः मध्ये प्रभावी-सम्पर्कं स्थापयित्वा औद्योगिक-परिवहनं सुगमं समयबद्धं च करिष्यति। सहैव, एषा परियोजना इन्दौर-क्षेत्रे सन्तुलित-नगरीकरणं तथा अधोसंरचना-आधारित-विकासं प्रति नूतनां दिशं प्रदास्यति।
---------------
हिन्दुस्थान समाचार