Enter your Email Address to subscribe to our newsletters

काठमाण्डू-नगरम्, ०३ मईमासः (हि.स.)। नेपालदेशस्य राष्ट्रपतिना रामचन्द्र-पौडेल-महाशयेन अनुमोदितः अध्यादेशः राजपत्रे प्रकाशितः सन् १५००-अधिकाः राजनीतिक-नियुक्तयः निरस्ताः अभवन्। अस्य सहैव १५० सार्वजनिक-निकायानां १५००-अधिकानि पदानि अद्य रिक्तानि अभवन्। शनिवासरे निर्गतः “सार्वजनिक-पदाधिकाऱिणां निष्कासन-सम्बन्धी विशेष-व्यवस्था-अध्यादेशः” रविवासरे राजपत्रे प्रकाशितः।
अस्य अध्यादेशस्य प्रभावः विश्वविद्यालयेषु, सार्वजनिक-संस्थासु, समितिषु, मण्डलेषु (बोर्डेषु) तथा विभिन्न-प्राधिकरणेषु अपि अभवत्। पूर्व-सर्वकाराणां कार्यकालेषु कृताः राजनीतिक-नियुक्तयः निरस्ताः कृताः। अस्य अध्यादेशस्य परिधौ पूर्व-प्रधानमन्त्री केपी-शर्मा-ओली, शेर-बहादुर-देउवा, पुष्प-कमल-दहाल-प्रचण्ड इत्यादीनां शासनकालेषु कृताः नियुक्तयः अपि समाविष्टाः।
एतेन अध्यादेशेन नेपाल-प्रज्ञा-प्रतिष्ठानम्, शैक्षणिक-संस्थानानि, संवैधानिक-निकायाः तथा सरकारी-प्रसारण-संस्थानानि अपि प्रभावितानि अभवन्। प्रधानमन्त्री बालेन्द्र-शाहस्य सचिवालयतः माध्यमेभ्यः प्रेषिते विज्ञप्तिपत्रे तेषां १५० सरकारी-निकायानां नामानि उल्लिखितानि सन्ति, येषु पूर्व-सर्वकारैः नियुक्ताः आहत्य १५९४ जनाः अद्य प्रभृति: पदात् मुक्ताः मन्यन्ते।
तथापि, अध्यादेशे नेपाल-राष्ट्र-धनागारस्य गवर्नरं वा तस्य मण्डल-सदस्यान् निष्कासयितुं सम्बन्धी काचित् सूचना न प्रदत्ता अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता