Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 03 मईमासः (हि.स.)।
विश्व-पत्रकार-स्वतन्त्रतादिवसस्य अवसरे मोहन चरण माझी तथा नवीन पटनायक इत्येतौ मीडियाजगतः प्रति शुभाशंसाः प्रेषितवन्तौ तथा लोकतान्त्रिकव्यवस्थायां स्वतन्त्रस्य उत्तरदायिनः च प्रेसस्य महत्त्वपूर्णां भूमिकां रेखाङ्कितवन्तौ।
मुख्यमन्त्री मोहनचरणमाझी उक्तवान् यत् स्वतन्त्रः उत्तरदायी च प्रेसः लोकतन्त्रस्य कृते अत्यावश्यकः अस्ति। तेन प्रेसस्वतन्त्रतां संरक्षितुं तथा सत्यनिष्ठां निर्भीकां च पत्रकारितां समर्थनं दातुं राज्यसरकारस्य प्रतिबद्धता पुनः उद्घोषिता।
अपरे पक्षे विपक्षनेता नवीनपटनायकः स्वसन्देशे स्वतन्त्रं प्रेसं लोकतन्त्रस्य आधारशिलां निरूपितवान् तथा उक्तवान् यत् सर्वाः स्वतन्त्रताः प्रेसस्वतन्त्रतायाः उपरि आश्रिताः भवन्ति। तेन निष्पक्षपत्रकारिता सत्यस्य प्रहरी इव, जनतानां स्वरः इति च सम्मानपूर्वकं वर्णिता।
पटनायकः नागरिकान् आहूतवान् यत् ते प्रेसस्वतन्त्रतायाः संरक्षणं कुर्वन्तु, पत्रकाराणां सुरक्षा सुनिश्चितां कुर्वन्तु तथा सत्यं प्रकाशयितुं तेषां साहसं धारयन्तु, येन न्यायः स्वतन्त्रता च अधिकं सुदृढौ भवेताम्।
---------------
हिन्दुस्थान समाचार