Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०३ मईमास: (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् पूर्वे उत्तरप्रदेशे चयन-प्रक्रियायां भेदभावः, भ्रष्टाचारः तथा अराजकता आसीत्, येन राज्यं ‘बीमारू’ इति स्थितिं प्राप्तम्। तदा परीक्षा-प्रक्रियायां अनियमितताः आसन्—कुत्रचित् परीक्षा अन्येन दीयते स्म, नियुक्ति-पत्रं च अन्येन प्राप्यते स्म इति अपि सः अवदत्।
सः एतद् लोकभवन-सभागारे आयोजिते नव-चयनित-अभ्यर्थिनां नियुक्ति-पत्र-वितरण-कार्यक्रमे उक्तवान्, यत्र सः ३५७ कनिष्ठ-विश्लेषकानां तथा २५२ दन्त-स्वास्थ्य-विज्ञानिनां नियुक्ति-पत्राणि वितरितवान्।
स्वस्य गोरखपुर-सांसद-कालस्य एकां घटनां स्मारयन् सः अवदत् यत् एकदा सः मार्गे गच्छन् जाम-स्थितिं दृष्टवान्। कारणं पृष्टे ज्ञातम् यत् एकः युवा आत्महत्यां कृतवान्। सः ग्रामः तस्य संसदीय-क्षेत्रे एव आसीत्। सः तत्र गत्वा पीडित-परिवारस्य सदस्यैः सह मिलित्वा ज्ञातवान् यत् सः युवा आरक्षक-नियुक्तौ मेरिट्-सूच्यां स्थितः सन् अपि नियुक्ति-पत्रं न प्राप्तवान्, यस्य कारणेन सः अवसादग्रस्तः भूत्वा आत्महत्यां कृतवान्।
योगी उक्तवान् यत् २०१७ अनन्तरं पारदर्शी-प्रक्रियया ९ लक्षाधिक-युवानः सरकारी-नियुक्तिं प्राप्तवन्तः, तथा भविष्ये अपि व्यापक-नियुक्तयः प्रचलिष्यन्ति। नियुक्ति-प्रक्रियायां भ्रष्टाचारं कर्तृभ्यः कठोर-दण्डः तथा सम्पत्ति-ग्रहण-व्यवस्था अपि कृताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता