सैफई-परिवारस्य २०४७ पर्यन्तं मुख्यमन्त्री भवितुं स्वप्नम् अपूर्णमेव स्थास्यति : केशव-प्रसाद-मौर्यः
लखनऊ-नगरम्, ०३ मईमासः (हि.स.)। उत्तर-प्रदेशस्य उपमुख्यमन्त्री केशव-प्रसाद-मौर्यः रविवासरे समाजवादी-पक्षस्य राष्ट्रियाध्यक्षम् अखिलेश-यादवम् प्रति कटाक्षं कृतवान्। सः सामाजिक-माध्यमे ‘एक्स’ इत्यत्र लेखं प्रकाशितवान् यत् — “२०२७ किम्, २०४७ पर्यन्तमपि
उत्तर प्रदेश के उपमुख्यमंत्री केशव प्रसाद मौर्य


लखनऊ-नगरम्, ०३ मईमासः (हि.स.)। उत्तर-प्रदेशस्य उपमुख्यमन्त्री केशव-प्रसाद-मौर्यः रविवासरे समाजवादी-पक्षस्य राष्ट्रियाध्यक्षम् अखिलेश-यादवम् प्रति कटाक्षं कृतवान्। सः सामाजिक-माध्यमे ‘एक्स’ इत्यत्र लेखं प्रकाशितवान् यत् — “२०२७ किम्, २०४७ पर्यन्तमपि सैफई-परिवारस्य मुख्यमन्त्री भवितुं स्वप्नम् अपूर्णमेव स्थास्यति।”

केशव-मौर्यः स्वस्य लेखे अग्रे अपि लिखितवान् यत् — “सपा-वीरः श्री अखिलेश-यादवः, भवतः संकेतैः मर्यादां लङ्घयित्वा ‘कृत्रिम-पीडीए’ प्रस्तूयमानान् जनान् उत्तर-प्रदेशस्य जागरूक-जनता सम्यक् परिचिनोति। सदने भवतः भाषा आचरणम् एव भवतः समर्थकानां शैली-व्यवहारेषु स्पष्टतया दृश्यते, एतदेव च भवतः राजनीतेः वास्तविक-स्वभावं प्रकाशयति। सपा-इत्यस्य सम्पूर्णः इतिहासः अराजकता, अत्याचारः, गुंडागर्दी च इत्येतैः कृष्ण-पृष्ठैः पूर्णः अस्ति, यं प्रदेशस्य जनता पुनः स्वीकर्तुं न इच्छति। २०२७ तमे वर्षे भविष्यति विधानसभानिर्वाचने उत्तर-प्रदेशे पुन: एकवारं ‘कमलम्’ विकसितं भविष्यति तथा सुशासनं प्रतिष्ठापितं भविष्यति।”

हिन्दुस्थान समाचार / अंशु गुप्ता