Enter your Email Address to subscribe to our newsletters

लखनऊ, 03 मईमासः (हि.स.)।उत्तरप्रदेशे नवजात-शिशु-मृत्युमितिं (आईएमआर) न्यूनीकर्तुं उन्नीयमानानां स्वास्थ्य-एककानां लाभः अन्य-राज्यानां शिशूनाम् अपि प्राप्यते। निरन्तरं विकसिताः उन्नीयमानाश्च सिक-न्यूबार्न-केयर-यूनिट् (एसएनसीयू), न्यूबार्न-स्टेबलाइजेशन-यूनिट् (एनबीएसयू) तथा सी-पैप-यन्त्रस्य उपयोगेन प्रदेशे नवजात-मृत्युदरः न्यूनः जातः, अपि च मध्य प्रदेश तथा राजस्थान इत्यादि अन्य-राज्यानां नवजात-शिशूनां जीवन-रक्षणे अपि उत्तरप्रदेशस्य स्वास्थ्य-एककानि सहायकानि अभवन्।
सरोजनी नायडू मेडिकल कॉलेज, आगरास्थम्, अस्य उत्तमं उदाहरणम् अस्ति। अस्मिन् चिकित्सालये प्रतिवर्षं मध्यप्रदेश-राजस्थानयोः प्रायः २०० शिशवः नवजीवनं प्राप्नुवन्ति। चिकित्सालयस्य एसएनसीयू-नोडल-अधिकारी प्रो. नीरज यादव इत्यस्य अनुसारं उत्तरप्रदेशात् अतिरिक्तं एतेषां द्वयोः राज्ययोः द्वादशाधिक-जिलाभ्यः आगतानां शिशूनां अत्र उपचारः क्रियते।
राजस्थानस्य धौलपुरजिल्लायाः आगता सुमन नामिका महिला अवदत् यत् अस्माकं जनपदस्य बहवः शिशवः अस्मिन् चिकित्सालये नवजीवनं प्राप्तवन्तः। प्रो. नीरज यादवोऽवदत् यत् राजस्थानस्य भरतपुर, धौलपुर, तथा मध्यप्रदेशस्य भिंड, मुरैना इत्यादिभ्यः बहवः शिशवः अत्र आगच्छन्ति, तेषां उपचारः च क्रियते। सः अपि अवदत् यत् बालरोग-विभागे प्रतिवर्षं प्रायः १८०० रोगिणःनियुक्तयो भवन्ति, तेषु एकप्रतिशतं (प्रायः २००) अन्य-राज्येभ्यः आगताः भवन्ति। तत्र २५ प्रतिशतं शिशवः अपूर्ण-कालिकाः (प्री-मैच्योर) भवन्ति, अपि च ८००-१००० ग्राम-भारयुक्ताः बहवः शिशवः अपि स्वस्थतां प्राप्य गच्छन्ति।
एतत् चिकित्सालयं आग्रायाः समीपस्थेषु द्वादशाधिक-जिलेषु निवसतां जनानां स्वास्थ्य-लाभं प्रददाति। नोडल-अधिकारी उक्तवान् यत् एसएनसीयू मध्ये स्थापिताः सी-पैप-यन्त्राणि अत्याधुनिकानि किफायती-प्रौद्योगिक्याः उदाहरणानि सन्ति, येषां दुष्प्रभावाः अपि न्यूनाः सन्ति। सी-पैप-यन्त्रेण नियत-अनुपाते ऑक्सीजन-वायू च नासिकया फुफ्फुसयोः प्रति प्रेष्यते, येन शिशोः श्वसनं सुलभं भवति। वेंटिलेटर-यन्त्रेण सह तुलनायां सी-पैप अधिक-लाभप्रदः अस्ति, तथा च ‘कंगारू-मदर-केयर’ अपि शीघ्रं आरभ्यते।
चिकित्सालयस्य प्रधानाचार्यः डॉ. प्रशान्त गुप्तः उक्तवान् यत् एसएनसीयू मध्ये केवलं आग्रायाः एव न, अपि तु समीपस्थ-जिलाभ्यः तथा राजस्थान-मध्यप्रदेशयोः अपि रोगिणः आगच्छन्ति, तथा अस्माकं चिकित्सक-दलम् एतेषां नवजातानां जीवन-रक्षणे निरतं वर्तते।
प्रदेशे बाल-स्वास्थ्य-सेवाः निरन्तरं सुदृढाः भवन्ति। राष्ट्रिय पारिवारिक स्वास्थ्य सर्वे अनुसारं उत्तरप्रदेशे सहस्रेषु २८ नवजाताः विविध-कारणैः मृत्युं यान्ति। एतत् न्यूनं कर्तुं अधुना ४८ एसएनसीयू एककानि सक्रियतया कार्यं कुर्वन्ति। एतेषु स्थापिताः सी-पैप-यन्त्राणि नवजातानां कृते वरदान-स्वरूपाणि सन्ति।
राष्ट्रिय स्वास्थ्य मिशन महाप्रबन्धकः डॉ. मिलिन्द वर्धन उक्तवान् यत् नवजात-मृत्युदर-न्यूनतायां सी-पैप ‘गेम-चेंजर’ उपायः अस्ति, विशेषतः तत्र यत्र श्वसन-कठिनता नवजात-मृत्यूनां मुख्य-कारणं भवति। मिशनस्य निदेशिका डॉ. पिंकी जोवेल उक्तवती यत् प्रथम-चरणे ४८ एसएनसीयू एककेषु ३५० चिकित्सक-कर्मचारिणः प्रशिक्षिताः सन्ति, द्वितीय-चरणे अवशिष्टेषु ७२ एककेषु प्रशिक्षणं अन्यानि कार्याणि च क्रियन्ते।
हिन्दुस्थान समाचार