Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, ०३ मईमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभा-निर्वाचन-परिणामेभ्यः पूर्वं रविवासरे प्रधानमन्त्री नरेन्द्र-मोदी-महोदयस्य संसदीय-क्षेत्रे वाराणसी-नगरे भारतीय-जनता-पक्षस्य (भाजपा) विजयस्य कामनया विशेष-पूजापाठ-हवनादिकं प्रारब्धम्। एग्जिट-पोल-परिणामान् स्वपक्षे अनुकूलान् दृष्ट्वा भाजपा-कार्यकर्तारः पूर्वमेव उत्साहिनः दृश्यन्ते।
कार्यकर्तारः कचहरी-सर्किट-हाउस-समक्षं शिवमन्दिर-परिसरे हवन-पूजनं कृतवन्तः तथा पार्टी-विजयाय प्रार्थनां कृतवन्तः।
भारतीय-जनता-युवा-मोर्चाया: काशी-क्षेत्रीय-उपाध्यक्षः इन्द्रभूषण-सिंह-कुशवाहा इत्यस्य नेतृत्वे सम्पन्ने अस्मिन् हवन-पूजने अनन्तरं कार्यकर्तारः उक्तवन्तः यत् ‘दीदी’ (ममता-बैनर्जी) इत्यस्याः पराजयानन्तरमेव पश्चिम-बङ्गस्य विकासः सम्भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता