Enter your Email Address to subscribe to our newsletters

आगरा-नगरम्, ०४ मे-मासः (हि.स.)। उत्तर-प्रदेशस्य आगरा-नगरे स्मार्ट-मीटर-स्थापनस्य विरोधः शनैः शनैः वर्धते। गतदिनेषु ग्रामवासिभिः स्मार्ट-मीटर उखात्य त्यक्ताः। अस्य विरोधार्थं समाजवादी-पक्षेण अद्य सोमवासरे जनाक्रोश-यात्रा आयोजिता, तथा ११ मे-दिने भारतीय-कृषक-संघस्य राष्ट्रीय-प्रवक्ता राकेश-टिकैतेनापि विरोध-यात्राम् आयोजयितुं निर्णयः कृतः।
समग्रे प्रदेशे उपभोक्तृभिः स्मार्ट-मीटर-विरोधे विभिन्नाः कार्यक्रमाः आयोज्यन्ते। आगरा-नगरेऽपि अस्य विरोधः आरब्धः। नगरीय-क्षेत्रे टोरेंट-पावर-विद्युत्-पूर्तिः अस्ति, यत्र अधुना यावत् पोस्टपेड-मीटर प्रयुज्यन्ते। किन्तु अन्येषु क्षेत्रेषु दक्षिणांचल-विद्युत्-वितरण-निगम-लिमिटेड् (डीवीवीएनएल) द्वारा नूतन-संयोजनेषु स्मार्ट-मीटर-स्थापनस्य विरोधः तीव्रः जातः। उपभोक्तारः पूर्वं स्थापितानां मीटर-इत्यादिनां अपसारणस्य अपि याचनां कुर्वन्ति।
उपभोक्तॄणां वचनम् अस्ति यत् सर्वकारेण पूर्वं उक्तं यत् नूतन-संयोजनेषु स्मार्ट-मीटर-इत्यादिनां प्रीपेड् अथवा पोस्टपेड्-प्रणाली उपभोक्तृनिर्णयाधीना भविष्यति, किन्तु वस्तुतः सर्वे मीटर प्रीपेड्-रूपेण एव स्थाप्यन्ते।
भारतीय-कृषक-संघः तथा अन्यानि कृषक-सङ्घटनानि अपि अस्य विरोधे प्रवृत्ताः। समाजवादी-पक्षेण धौलपुर-हाउस-तः उपायुक्त-कार्यालयं प्रति जनाक्रोश-यात्रा आहूता, यस्य नेतृत्वं राज्यसभा-सदस्यः रामजीलाल-सुमन करिष्यति।
तथा भारतीय-कृषक-सङ्घेन कागा-रोल-क्षेत्रस्य अकोला-नगरे चरण-सिंह-महाविद्यालय-परिसरे विरोध-यात्रा आयोज्यते, यत्र राकेश-टिकैतः कृषकान् उपभोक्तॄन् च सम्बोधयिष्यति। पूर्वं ग्रामवासिभिः स्मार्ट-मीटर उत्खात्य विद्युत्-उपकेन्द्रे क्षिप्ताः, ततः अनन्तरं तेषां विरुद्धं अनेकाः अभियोगाः निबद्धाः, यस्य विषयेऽपि जनानां रोषः वर्तते।
कृषक-सङ्घ-नेता राजवीर-लवानिया उक्तवान् यत् नूतना स्मार्ट-मीटर-व्यवस्था ग्रामेषु आर्थिक-भारं वर्धयति तथा तान्त्रिक-दोषैः उपभोक्तॄणां विश्वासः अपि नष्टः। तेषां याचनाः सन्ति—स्मार्ट-मीटर-स्थापनस्य स्थगनम्, पूर्व-व्यवस्थायाः पुनः प्रवर्तनम्, दोषिणां विरुद्धं कार्यवाही, कृषकाणां विरुद्धं प्रकरणानां निरसनं च।डीवीवीएनएल-प्रमुख-अभियन्ता कपिल-सिंह-सिंधसानी उक्तवान् यत् शासनस्य आदेशानुसारमेव कार्यं क्रियते, नूतन-आदेशप्राप्तौ तदनुसारं कार्यवाही भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता