केंद्रीय गृहमंत्री अमित शाहः 19 मई तमे दिनांके जगदलपुरे मध्य क्षेत्रीय परिषदः अध्यक्षतांकरिष्यति
रायपुरम् , 06 मईमासः (हि.स.)।अमित शाह १९ मईदिनाङ्के बस्तर प्रदेशस्य भ्रमणं भविष्यति। सः संभागमुख्यालये जगदलपुर नगरे मध्यक्षेत्रीयपरिषदः सभायाः अध्यक्षतां करिष्यति। गृहमन्त्री अमित शाह १८ मईरात्रौ प्रत्यक्षतया जगदलपुरं प्राप्स्यति तथा तत्रैव रात्रि
केंद्रीय गृहमंत्री अमित शाह


रायपुरम् , 06 मईमासः (हि.स.)।अमित शाह १९ मईदिनाङ्के बस्तर प्रदेशस्य भ्रमणं भविष्यति। सः संभागमुख्यालये जगदलपुर नगरे मध्यक्षेत्रीयपरिषदः सभायाः अध्यक्षतां करिष्यति।

गृहमन्त्री अमित शाह १८ मईरात्रौ प्रत्यक्षतया जगदलपुरं प्राप्स्यति तथा तत्रैव रात्रिविश्रामं करिष्यति। ततः परदिनं अर्थात् १९ मईदिनाङ्के मध्यक्षेत्रीयपरिषदः सभां संचालयिष्यति, अनन्तरं सायंकाले देहलीनगरं प्रत्यागमिष्यति।

अस्यां उच्चस्तरीयसभाविषये मध्यक्षेत्रीयपरिषदः सदस्यराज्यानां — छत्तीसगढ़, मध्य प्रदेश, उत्तर प्रदेश तथा उत्तराखंड — मुख्यमन्त्रिणः वरिष्ठमन्त्रिणश्च सहभागं करिष्यन्ति। सभायां चतुर्णां राज्याणां मध्ये सामाजिकआर्थिकविकासः, आधारभूतसंरचना, सुरक्षा तथा अन्तर्राज्यीयविषयेषु चर्चा भविष्यति।

सभासम्बद्धाः सज्जताः आरब्धाः सन्ति। मुख्यसचिवः विकास शील सर्वेभ्यः विभागेभ्यः पूर्वसभायाः विवरणपत्रस्य आधारेण छत्तीसगढ़राज्ये सम्पन्नकार्याणां लंबितविषयाणां च प्रतिवेदनं याचितवान्।

उच्यते यत् बस्तरप्रदेशे नक्सलवादस्य समापनानन्तरम् एषा प्रथमा महती उच्चस्तरीयसभा भविष्यति।

------

हिन्दुस्थान समाचार