Enter your Email Address to subscribe to our newsletters

मेदिनीपुरम्, 06 मईमासः (हि.स.)।पश्चिम मेदिनीपुर जनपदे विधानसभानिर्वाचने भारतीय जनता पार्टी इत्यस्य विजयस्य अनन्तरं मङ्गलवासरस्य प्रातःकालात् आरभ्य रात्रेः पर्यन्तं राजनैतिकक्रियाकलापानां उत्सवस्य च वातावरणम् आसीत्। विभिन्नप्रदेशेषु नवनिर्वाचितविधायकानां स्वागतसमारोहाः, पूजार्चनाः, प्रशासनिकाधिकारिभिः सह भेंटाः तथा विजयउत्सवसम्बद्धाः बहवः कार्यक्रमाः आयोजिताः।
नारायणगढ़ विधानसभाक्षेत्रात् विजयं प्राप्तवान् विधायकः रमाप्रसाद गिरी मङ्गलवासरस्य प्रातःकाले बेलदाक्षेत्रस्य देउलीशिवमन्दिरं गतवान्। तत्र सः दलकार्यकर्तृभिः समर्थकैः सह पूजार्चनां कृत्वा क्षेत्रस्य जनानां कृते आशीर्वादं प्रार्थितवान्। पूजार्चनानन्तरं सः स्थानीयजनैः सह मिलित्वा तेषां प्रति कृतज्ञतां व्यक्तवान् तथा उक्तवान् यत् एषा विजयः नारायणगढ़प्रदेशस्य जनानां विश्वासस्य समर्थनस्य च परिणामः अस्ति। सः क्षेत्रस्य सर्वाङ्गीणविकासार्थं कार्यं करिष्यतीति आश्वासनम् अपि दत्तवान्।
अस्मिन्नेव दिने केशियाड़ी विधानसभाक्षेत्रात् निर्वाचितः विधायकः भद्र हेमरम अपि भिन्नरीत्या स्वक्रियाकलापान् अकरोत्। सायंकाले सः दांतनपुलिसस्थानकं गतवान् तथा निर्वाचनप्रक्रियां शान्तिपूर्णरीत्या सम्पन्नां कर्तुं प्रशासनिकाधिकारिभ्यः धन्यवादं अभिनन्दनं च दत्तवान्। सः उक्तवान् यत् जनतया परिवर्तनस्य उत्तमप्रशासनस्य च कृते भाजपायै विश्वासः प्रदर्शितः तथा दलं भविष्ये जनानाम् अपेक्षाः पूरयितुं प्रयतिष्यते।
मङ्गलवासरस्य सायंकाले रात्रौ च जनपदस्य अनेकेषु प्रदेशेषु उत्सवस्य वातावरणं दृष्टम्। अखिल भारतीय विद्यार्थी परिषद इत्यस्य सदस्याः बेलदामहाविद्यालयसहितेषु विभिन्नशैक्षणिकसंस्थासु छात्रेभ्यः शिक्षकभ्यश्च मिष्टान्नं वितरित्वा हर्षं प्रकटितवन्तः। नारायणगढ़जनरलडिग्रीमहाविद्यालयस्य पुरतः एबीवीपीकार्यकर्तारः अबीरक्रीडां कृत्वा घोषवाक्यानि उच्चार्य विजयोत्सं समाचरन्।
दिवसभरं प्रवृत्तेषु राजनैतिकक्रियाकलापेषु मध्ये नारायणगढ़े तनावस्य एका घटना अपि समुपस्थिता। आरोपः अस्ति यत् स्थानीयतृणमूलनेता रंजीत बोस इत्यस्य निजीकार्यालये कतिपयैः जनैः तोडफोडः कृतः। स्थानीयजनानां आरोपः अस्ति यत् रोजगारप्राप्तेः नाम्ना तेषां समीपात् धनं गृहीतम् आसीत्।
रात्रौ प्रदेशे पुलिसबलं प्राप्तम् तथा परिस्थितिः नियन्त्रिता। प्रकरणस्य अन्वेषणं आरब्धम् अस्ति।
अपरतः मेदिनीपुर नगरेऽपि सायंकालपर्यन्तं उत्सवस्य वातावरणम् आसीत्। तत्र भाजपाकार्यकर्तारः समर्थकाश्च विधायकं शंकर गुच्छाइत मिष्टान्नं भोजयित्वा अभिनन्दनं कृतवन्तः तथा विजयस्य हर्षं साझा कृतवन्तः।
खड़गपुर सदरविधानसभाक्षेत्रे अपि भाजपाकार्यकर्तारः विजयस्य आनन्दे विभिन्नमन्दिरेषु पूजार्चनां कृतवन्तः। अनेकस्थानेषु कथाकीर्तनं हनुमानचालीसापाठश्च आयोजितः। कार्यकर्तारः मन्दिरं गत्वा भगवतः समक्षं प्रणामं कृत्वा क्षेत्रस्य शान्तेः विकासस्य च कामनां कृतवन्तः। तथापि अस्मिन् काले कतिपयेभ्यः स्थानेभ्यः लघुघटनानां वार्ताः अपि प्राप्ताः। आरोपः अस्ति यत् भाजपाकार्यकर्तृभिः तृणमूल कांग्रेस इत्यस्य कतिपयानि दलकार्यालयानि तोडितानि तथा तेषु हस्तक्षेपस्य प्रयासः कृतः।
खड़गपुरनगरस्य अध्यक्षा कल्याणी घोष हिन्दुस्थानसमाचारसंस्थायै उक्तवती यत् रात्रौ वार्डसंख्या सप्तमध्ये एकस्मिन् दलकार्यालये तोडफोडस्य महिलाभिः सह अभद्रव्यवहारस्य च घटना समुपस्थिता, येन प्रदेशे किञ्चित्कालं यावत् तनावपूर्णं वातावरणम् अभवत्। पुलिसबलं सम्पूर्णप्रकरणे सतर्कदृष्टिं धारयति। सा अपि उक्तवती यत् प्रातःकाले तस्याः मतदानकेंद्रस्य अन्यस्मिन् दलकार्यालये अपि तोडफोडः कृतः तथा तत्र स्थापितं फलकं दग्धम्।
---------------
हिन्दुस्थान समाचार