आसनसोलम् : पूजायां प्रतिबंधम् उपेक्ष्य जनैरुद्घाटितं दुर्गा मंदिरस्य कपाटं, शुभारब्धा नियमितरूपेण आराधना
कोलकाता, 06 मईमासः (हि.स.)।आसनसोल नगरात् एकः अद्भुतः दीर्घकालात् विवादग्रस्तः च प्रसङ्गः प्रकाशम् आगतः, यत्र पञ्चसप्ततिवर्षपर्यन्तं प्रवर्तमानाः दुर्गापूजायाः परम्पराः मन्दिरनिर्माणानन्तरमेव प्रतिबन्धेषु बद्धाः अभवन्। यस्मिन् स्थाने दशकानां पर्यन्त
मां दुर्गा की तस्वीर


दुर्गा मंदिर आसनसोल


कोलकाता, 06 मईमासः (हि.स.)।आसनसोल नगरात् एकः अद्भुतः दीर्घकालात् विवादग्रस्तः च प्रसङ्गः प्रकाशम् आगतः, यत्र पञ्चसप्ततिवर्षपर्यन्तं प्रवर्तमानाः दुर्गापूजायाः परम्पराः मन्दिरनिर्माणानन्तरमेव प्रतिबन्धेषु बद्धाः अभवन्। यस्मिन् स्थाने दशकानां पर्यन्तं नियमितरूपेण पूजार्चना क्रियते स्म, तस्मिन्नेव स्थाने मन्दिरनिर्माणानन्तरं पूजायाः निषेधः कृतः तथा वर्षे केवलं त्रिषु अवसरिषु — दुर्गापूजा, कालीपूजा तथा लक्ष्मीपूजा — एव मन्दिरद्वारस्य उद्घाटनस्य अनुमतिः प्रदत्ता।

अस्य सम्पूर्णविवादस्य आरम्भः वर्षे २००९ तमे अभवत्, यदा प्रायः साड्ढत्रिकट्ठापरिमितभूमिः पञ्चचत्वारिंशल्लक्षरूप्यकैः मन्दिरनिर्माणार्थं क्रीता। भूमेः पञ्जीकरणं मन्दिरन्यासस्य नाम्ना कृतम् तथा सर्वाः शासकीयप्रक्रियाः सम्पन्नाः अभवन्। ततः २०१२-१३ वर्षयोः मध्ये मन्दिरनिर्माणकार्यं आरब्धम्, किन्तु अद्यापि तत् पूर्णतया सम्पन्नं न जातम्। निर्माणकार्यस्य आरम्भे एव कतिपयैः जनैः अत्र नियमितपूजायाः विरोधः कृतः, अनन्तरं प्रकरणं प्रशासनस्य समीपम् अगच्छत् तथा हस्तक्षेपः अभवत्।

उच्यते यत् तत्कालीनअतिरिक्तजिलाधिकाऱिणः सभायां एषः निर्णयः कृतः यत् मन्दिरे सीमितावसरेष्वेव पूजायाः अनुमतिः भविष्यति। पश्चात् प्रकरणं उच्चन्यायालयं प्राप्तम्, यत्र प्रशासनस्य प्रतिवेदने आशङ्का व्यक्ता यत् यदि नियमितपूजायाः अनुमतिः प्रदास्यते तर्हि विधिव्यवस्था बाधिता भवेत्। ततः आरभ्य प्रकरणं लंबितम् अस्ति तथा मन्दिरं अधिकांशसमये पिहितमेव स्थितम्, येन स्थानीयजनानां मध्ये निराशा वर्तते स्म।

प्रायः चतुर्दश-पञ्चदशवर्षपर्यन्तं मन्दिरं पिहितं स्थित्वा सोमवासरस्य रात्रौ परिस्थितौ अकस्मात् नूतनः मोडः अभवत्। शतशः श्रद्धालवः मन्दिरं प्राप्तवन्तः तथा पिहितं ताडनं भित्त्वा अन्तः प्रविष्टवन्तः। “जय श्री राम” इति घोषैः सह मन्दिरद्वाराणि उद्घाटितानि। मङ्गलवासरस्य प्रातःकाले स्थानीयजनाः मन्दिरस्य स्वच्छतां कृत्वा विधिवत् पूजार्चनाम् आरब्धवन्तः, ततः सम्पूर्णप्रदेशे उत्सवसदृशं वातावरणम् अभवत्।

स्थानीयजनानां मतम् अस्ति यत् हालियराजनैतिकपरिवर्तनानन्तरम् एतत् सम्भवं जातम्। क्षेत्रात् भारतीय जनता पार्टी इत्यस्य पक्षतः विजयी अभ्यर्थी कृष्णेंदु मुखर्जी अस्य श्रेयः प्राप्नोति। जनानां अनुसारं सः निर्वाचनकाले प्रतिज्ञां कृतवान् यत् मन्दिरद्वारं उद्घाट्यते, अधुना च सा प्रतिज्ञा पूर्णा इव दृश्यते।

मन्दिरेण सम्बद्धः न्यासी संजय अग्रवाल उक्तवान् यत् यावत् प्रशासनस्य पक्षतः कश्चन लिखितादेशः न प्राप्यते, तावत् ते औपचारिकरूपेण मन्दिरसञ्चालनं स्वहस्ते न गृह्णीयुः। तथापि तेन एतत् सनातनश्रद्धायाः विजयः इति कथितम् तथा उक्तं यत् वैधानिकप्रक्रियायाः पूर्णतायाः अनन्तरमेव अग्रिमनिर्णयः क्रियिष्यते।

मन्दिरस्य उद्घाटनानन्तरं बहुसंख्यकाः श्रद्धालवः दर्शनार्थं समागच्छन्ति। स्थानीयनिवासिनः वदन्ति यत् वर्षाणां पर्यन्तं ते मन्दिरस्य बहिःस्थित्वैव प्रणामं कृत्वा प्रत्यागच्छन्ति स्म, किन्तु अधुना मन्दिरस्य उद्घाटनेन तेषाम् आस्थायाः नूतनं बलं प्राप्तम्। अनेकैः एषा दीर्घप्रतीक्षानन्तरं प्राप्ता हर्षपूर्णा घटना इति कथिता, यदा एकेन वृद्धेन भावुकतया उक्तं यत् यदि तस्य पिता अद्य जीवितः अभविष्यत् तर्हि एतत् दृश्यं दृष्ट्वा अत्यन्तं हृष्टः अभविष्यत्।

अधुना प्रकरणं न्यायालये विचाराधीनम् अस्ति तथा प्रशासनिकादेशस्य प्रतीक्षा क्रियते। अतः मन्दिरस्य भविष्यं पूर्णतया वैधानिकप्रक्रियायाः उपरि अवलम्बते, किन्तु वर्षाणां पर्यन्तं पिहितस्य अस्य मन्दिरस्य उद्घाटनेन आसनसोलप्रदेशे हर्षस्य उत्साहस्य च स्पष्टा लहरी दृश्यते।

---------------

हिन्दुस्थान समाचार