नेपाले वर्धते गुरुकुलं संस्कृतभाषां च प्रति आकर्षण
काठमांडूः, 06 मईमासः (हि.स.)। नेपाल देशस्य गुरुकुलेषु अध्ययनं कुर्वतां विद्यार्थिनां संख्या शनैः शनैः वर्धमाना दृश्यते। छात्राणां वर्धमाननामाङ्कनेन सह संस्कृतभाषायाः सशक्तः पुनरागमनः अपि भवति। नेपाल संस्कृत विश्वविद्यालय इत्यस्य दांग स्थितः प्रा
नेपाल के दांग जिला स्थित गुरुकुल


काठमांडूः, 06 मईमासः (हि.स.)।

नेपाल देशस्य गुरुकुलेषु अध्ययनं कुर्वतां विद्यार्थिनां संख्या शनैः शनैः वर्धमाना दृश्यते। छात्राणां वर्धमाननामाङ्कनेन सह संस्कृतभाषायाः सशक्तः पुनरागमनः अपि भवति।

नेपाल संस्कृत विश्वविद्यालय इत्यस्य दांग स्थितः प्राध्यापकः गुरुप्रसाद सुवेदी इत्यस्य अनुसारं वर्तमानकाले देशे प्रायः पञ्चविंशतिसहस्रं विद्यार्थिनः संस्कृताध्ययनं कुर्वन्ति। सम्पूर्णदेशे प्रायः पञ्चशतानि गुरुकुलानि सञ्चालितानि सन्ति, तेषु त्रिशतानि पञ्जीकृतानि तथा द्विशतानि अपञ्जीकृतानि सन्ति।

प्राध्यापकसुवेदीमहाभागस्य मते एतेषु गुरुकुलेषु प्रायः विंशतिसहस्रं विद्यार्थिनः पठन्ति। अपरं नेपाल संस्कृत विश्वविद्यालय इत्यस्य आङ्गिकसंबद्धमहाविद्यालयेषु अतिरिक्तरूपेण ४,९४३ विद्यार्थिनः शास्त्री (स्नातकस्तरः) तथा आचार्य (स्नातकोत्तरस्तरः) इत्येतयोः स्तरयोः अध्ययनं कुर्वन्ति — इति विश्वविद्यालयस्य प्रशासनप्रमुखः गिरिराज शर्मा अवदत्।

देवघाट प्रदेशे, यः तनहुँ तथा चितवन प्रदेशयोः विस्तृतः अस्ति, तत्र स्थितेषु महेश संस्कृत गुरुकुल, परमानन्द संस्कृत गुरुकुल तथा गार्गी कन्या गुरुकुल इत्येषु अधुना प्रायः १००० विद्यार्थिनः संस्कृताध्ययनं कुर्वन्ति।

प्राध्यापकसुवेदी उक्तवान् यत् तस्य छात्रजीवनस्य अनुभवः भिन्नः आसीत्। “वर्षे २००८ तमे प्रजातन्त्रस्य स्थापनानन्तरं कश्चन कालः आसीत् यदा संस्कृताध्ययनं कुर्वतां छात्राणां अन्वेषणम् अपि कठिनम् आसीत्, किन्तु अधुना परिस्थितिः परिवर्तिता अस्ति तथा संस्कृतं पठतां विद्यार्थिनां संख्या वर्धते।”

अस्मिन् वर्षे देवघाटस्थिते हरिहर संन्यास आश्रम इत्यत्र कक्षा ६ तः १२ पर्यन्तं केवलं २५ स्थानानां कृते आयोजितायां प्रवेशपरीक्षायां ३०० छात्राः सहभागी अभवन्।

तथैव देवघाटस्थितस्य महेश संस्कृत गुरुकुलस्य प्रवेशपरीक्षायां २०० छात्राः सहभागी अभवन्, तेषु नूतनशैक्षणिकसत्रार्थं ३३ विद्यार्थिनः चयनिताः। सुवेदीमहाभागस्य अनुसारम् एतत् विद्यार्थिनां अभिभावकानां च वर्धमानाकर्षणस्य संकेतः अस्ति।

---------------

हिन्दुस्थान समाचार